शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शो॑ची॒र्माऽन्तरि॑क्षं॒ मा वन॒स्पती॑न् ॥
śivó bhava prajā́bhyo mā́nuṣībhyás tvám aṅgiraḥ | mā́ dyā́vā-pṛthivī́ abhí śocīr mā́ntárikṣaṃ mā́ vanaspátīn ||
హే అంగిరస్, నీవు మానవ ప్రజల పట్ల శివుడు (కల్యాణకరుడు)గా ఉండు. ద్యావా-పృథివిని దహించకు; అంతరిక్షాన్ని దహించకు; వనస్పతులను (అరణ్యాధిపతులను) దహించకు.
शिवः । भव । प्रजाभ्यः । मानुषीभ्यः । त्वम् । अङ्गिरः । मा । द्यावा-पृथिवी । अभि । शोचीः । मा । अन्तरिक्षम् । मा । वनस्पतीन् ।