
Chapter Arc: सरोवर के तट पर युधिष्ठिर एक अद्भुत तपस्वी को देखते हैं—वह एक पाँव पर स्थिर, अजेय-सा, मानो किसी लोक का रक्षक। राजा के मन में कौतूहल उठता है: यह यक्ष नहीं, फिर कौन? → युधिष्ठिर उस दिव्य पुरुष की पहचान टटोलते हैं—क्या वह वसु है, रुद्र है, मरुतों में श्रेष्ठ है, या स्वयं इन्द्र? प्रश्नों के साथ-साथ यह भी तनाव है कि यह साक्षात्कार केवल पहचान का नहीं, परीक्षा का भी हो सकता है; धर्म और व्यवहार की कसौटी सामने है। → तपस्वी स्वयं उद्घोष करता है—‘मैं धर्म हूँ; तुम्हारे आनृशंस्य (करुणा/धर्मशीलता) से प्रसन्न हूँ; वर माँगो।’ यह क्षण युधिष्ठिर के जीवन-धर्म का सार्वजनिक अनुमोदन बन जाता है, और धर्मदेव का प्रत्यक्ष प्राकट्य अध्याय का शिखर है। → युधिष्ठिर धर्मदेव को ‘सनातन देवाधिदेव’ जानकर वर स्वीकारते हैं। धर्मदेव वरदान देकर यह भी संकेत करते हैं कि युधिष्ठिर अपने ही रूप में पृथ्वी पर विचरेंगे, फिर भी तीनों लोकों में उनकी कीर्ति/पहचान सुरक्षित रहेगी। तत्पश्चात धर्मदेव अंतर्धान हो जाते हैं; पाण्डव विश्राम कर श्रमरहित होकर एकत्र होते हैं।
Verse 1
(दाक्षिणात्य अधिक पाठका १ श्लोक मिलाकर कुल १३४ श्लोक हैं।) #::73:.8 #::3.:7 (0) हि 7 - धर्मानुकूल प्राप्त भार्यासे धर्मका विरोध नहीं होता एवं वह पातित्रत्यधर्मका पालन करनेवाली हो
वैशम्पायन उवाच—ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः। क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्॥
Verse 2
युधिछ्िर उवाच सरस्येकेन पादेन तिष्ठन्तमपराजितम् | पृच्छामि को भवान् देवो न मे यक्षो मतो भवान्
युधिष्ठिर उवाच—सरस्येकेन पादेन तिष्ठन्तमपराजितम्। पृच्छामि को भवान् देवो न मे यक्षो मतो भवान्॥
Verse 3
वसूनां वा भवानेको रुद्राणामथवा भवान् | अथवा मरुतां श्रेष्ठो वज्नी वा त्रिदशेश्वर:
वसूनां वा भवानेको रुद्राणामथवा भवान् । अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥
Verse 4
मम हि भ्रातर इमे सहस्रशतयोधिन: । त॑ योध॑ न प्रपश्यामि येन सर्वे निपातिता:,मेरे ये भाई तो लाखों वीरोंसे युद्ध करनेवाले हैं। ऐसा तो मैंने कोई योद्धा नहीं देखा, जिसने इन सभीको रणभूमिमें गिरा दिया हो
मम हि भ्रातर इमे सहस्रशतयोधिनः । तं योधं न प्रपश्यामि येन सर्वे निपातिताः ॥
Verse 5
सुखं प्रतिप्रबुद्धानामिन्द्रियाण्युपलक्षये । स भवान् सुहृदो5स्माकमथवा न: पिता भवान्
सुखं प्रतिप्रबुद्धानामिन्द्रियाण्युपलक्षये । स भवान् सुहृदोऽस्माकमथवा नः पिता भवान् ॥
Verse 6
यक्ष उवाच अहं ते जनकस्तात धर्मो5मृदुपराक्रम । त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ
यक्ष उवाच अहं ते जनकस्तात धर्मोऽमृदुपराक्रम । त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥
Verse 7
यश: सत्यं दम: शौचमार्जवं ह्वीरचापलम् | दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम,यश, सत्य, दम, शौच, सरलता, लज्जा, अचंचलता, दान, तप और ब्रह्मचर्य--ये सब मेरे शरीर हैं
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् । दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥
Verse 8
अहिंसा समता शान्तिरानृशंस्यममत्सर: । द्वाराण्येतानि मे विद्धि प्रियो हासि सदा मम,अहिंसा, समता, शान्ति, दया और अमत्सर--डाहका न होना--इन्हें मेरे पास पहुँचनेके द्वार समझो। तुम मुझे सदा प्रिय हो
यक्ष उवाच—अहिंसा समता शान्तिरानृशंस्यममत्सरः । द्वाराण्येतानि मे विद्धि प्रियोऽसि सदा मम ॥
Verse 9
दिष्ट्या पञ्चसु रक्तो5सि दिष्ट्या ते घट्पदी जिता । द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके
यक्ष उवाच—दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता । द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥
Verse 10
धर्मोड्हमिति भद्र ते जिज्ञासुस्त्वामिहागत: । आनुृशंस्येन तुष्टोडस्मि वरं दास्यामि तेडनघ
यक्ष उवाच—धर्मोऽस्मीति भद्रं ते जिज्ञासुस्त्वामिहागतः । आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥
Verse 11
वरं वृणीष्व राजेन्द्र दाता हास्मि तवानघ । ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गति:
यक्ष उवाच—वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ । ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥
Verse 12
युधिछिर उवाच अरणीसहितं यस्य मृगो हयादाय गच्छति । तस्याग्नयो न लुप्येरन् प्रथमो5स्तु वरो मम
युधिष्ठिर उवाच—अरणीसहितं यस्य मृगो ह्यादाय गच्छति । तस्याग्नयो न लुप्येरन् प्रथमोऽस्तु वरो मम ॥
Verse 13
यक्ष उवाच अरणीसहितं हास्य ब्राह्मणस्य हृतं॑ मया । मृगवेषेण कौन्तेय जिज्ञासार्थ तव प्रभो
यक्ष उवाच—अरणीसहितं हास्य ब्राह्मणस्य हृतं मया । मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥
Verse 14
यक्षने कहा--कुन्तीनन्दन महाराज युधिष्ठिर! उस ब्राह्मणके अरणीसहित मन्थनकाष्ठको तो तुम्हारी परीक्षाके लिये मैं ही मृगरूपसे लेकर भाग गया था ।।
वैशम्पायन उवाच—ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । अन्यं वरय भद्रं ते वरं त्वममरोपम ॥
Verse 15
युधिछिर उवाच वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् । तत्र नो नाभिजानीयुर्वसतो मनुजा: क्वचित्
युधिष्ठिर उवाच—वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् । तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥
Verse 16
वैशम्पायन उवाच ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्
वैशम्पायन उवाच—ददानीत्येव भगवानुत्तरं प्रत्यपद्यत । भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥
Verse 17
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् | नवो विज्ञास्यते वक्षित् त्रिषु लोकेषु भारत,“भरतनन्दन! यद्यपि तुम इस पृथ्वीपर इसी रूपसे विचरोगे, तो भी तीनों लोकोंमें कोई भी तुम्हें नहीं पहचान सकेगा
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् । न वो विज्ञास्यते वत्स त्रिषु लोकेषु भारत ॥
Verse 18
वर्ष त्रयोदशमिदं मत्प्रसादात् कुरूद्वहा: | विराटनगरे गूढा अविज्ञाताश्चरिष्यथ
वैशम्पायन उवाच— “वर्षत्रयोदशमिदं मत्प्रसादात् कुरूद्वहाः। विराटनगरे गूढा अविज्ञाताश्चरिष्यथ॥”
Verse 19
यद् वः संकल्पितं रूपं मनसा यस्य यादृशम् | तादृशं तादृशं सर्वे छन््दतो धारयिष्यथ,“तथा तुममेंसे जो-जो मनसे जैसा संकल्प करेगा, वह इच्छानुसार वैसा-वैसा ही रूप धारण कर सकेगा
वैशम्पायन उवाच— “यद्वः संकल्पितं रूपं मनसा यस्य यादृशम्। तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ॥”
Verse 20
अरणीसत्ितं॑ चेदं ब्राह्मणाय प्रयच्छत । जिज्ञासार्थ मया होतदाह्ृतं मृगरूपिणा,“यह अरणीसहित मन्थनकाष्ठ उस ब्राह्मणको दे दो। तुम्हारी परीक्षाके लिये ही मैंने मृगका रूप धारण करके इसका हरण किया था
वैशम्पायन उवाच— “अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत। जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा॥”
Verse 21
प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते । न तृप्यामि नरश्रेष्ठ प्रयच्छन् वै वरांस्तथा
वैशम्पायन उवाच— “प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते। न तृप्यामि नरश्रेष्ठ प्रयच्छन् वै वरांस्तथा॥”
Verse 22
तृतीयं गृह्यृतां पुत्र वरमप्रतिमं महत् । त्वं हि मत्प्रभवों राजन् विदुरश्चन ममांशज:
वैशम्पायन उवाच— “तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्। त्वं हि मत्प्रभवो राजन् विदुरश्च ममांशजः॥”
Verse 23
युधिछिर उवाच देवदेवो मया दृष्टो भवान् साक्षात् सनातन: । य॑ं ददासि वर तुष्टस्तं ग्रहीष्याम्यहं पित:
युधिष्ठिर उवाच—देवदेवो मया दृष्टो भवान् साक्षात् सनातनः। यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः॥
Verse 24
जयेय॑ लोभमोहौ च क्रोधं चाहं सदा विभो । दाने तपसि सत्ये च मनो मे सततं भवेत्,विभो! मुझे ऐसा वर दीजिये कि मैं लोभ, मोह और क्रोधको जीत सकूँ तथा दान, तप और सत्यमें सदा मेरा मन लगा रहे
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो। दाने तपसि सत्ये च मनो मे सततं भवेत्॥
Verse 25
धर्म उवाच उपपन्नो गुणैरेतै: स्वभावेनासि पाण्डव | भवान् धर्म: पुनश्चैव यथोक्तं ते भविष्यति
धर्म उवाच—उपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव। भवान् धर्मः पुनश्चैव यथोक्तं ते भविष्यति॥
Verse 26
वैशम्पायन उवाच इत्युक्त्वान्तर्दथे धर्मों भगवॉललोकभावन: । समेता: पाण्डवाश्वैव सुखसुप्ता मनस्विन:
वैशम्पायन उवाच—इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः। समेता पाण्डवाश्चैव सुखसुप्ता मनस्विनः॥
Verse 27
उपेत्य चाश्रमं वीरा: सर्व एव गतकक््लमा: । आरणेयं ददुस्तस्मै ब्राह्णाय तपस्विने
उपेत्य चाश्रमं वीराḥ सर्व एव गतक्लमाः। आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने॥
Verse 28
वैशम्पायनजी कहते हैं--राजन्! ऐसा कहकर लोकरक्षक भगवान् धर्म अन्तर्धान हो गये एवं सुखपूर्वक सोकर उठनेसे श्रमरहित हुए मनस्वी वीर पाण्डवगण एकत्र होकर आश्रममें लौट आये। वहाँ आकर उन्होंने उस तपस्वी ब्राह्मणको उसकी अरणी एवं मन्थनकाष्ठ दे दिये ।।
वैशम्पायन उवाच—राजन्, एवमुक्त्वा लोकरक्षको भगवान् धर्मोऽन्तर्हितः। अथ पाण्डवा महात्मानः सुखेन सुप्त्वा प्रबुद्धाः श्रमवर्जिताः समागम्याश्रमं प्रत्यागच्छन्। तत्रागत्य तस्मै तपस्विने ब्राह्मणाय ताम् अरणीं मन्थनकाष्ठं च प्रत्यददुः॥ इदं समुत्थानसमागतं महत् पितुश्च पुत्रस्य च कीर्तिवर्धनम्। पठन् नरः स्याद् विजितेन्द्रियो वशी सपुत्रपौत्रः शतवर्षभाग् भवेत्॥
Verse 29
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने । कदर्यभावे न रमेन्मन: सदा नृणां सदाख्यानमिदं विजानताम्
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने। कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम्॥
Verse 314
इति श्रीमहाभारते वनपर्वणि आरणेयपर्वणि नकुलादिजीवनादिवरप्राप्तौ चतुर्दशाधिकत्रिशततमो<5ध्याय:
इति श्रीमहाभारते वनपर्वणि आरणेयपर्वणि नकुलादिजीवनादिवरप्राप्तौ चतुर्दशाधिकत्रिशततमोऽध्यायः॥