
Kṣānti–Tejas Viveka: Prahlāda’s Instruction to Bali (Draupadī’s Application)
Upa-parva: Draupadī–Yudhiṣṭhira Saṃvāda: Prahlāda–Bali Itihāsa (Kṣānti–Tejas Discourse)
Draupadī cites an ancient itihāsa: Bali Vairochana questions Prahlāda on whether kṣamā (forbearance) or tejas (assertive power) is superior. Prahlāda rejects absolutism—neither constant severity nor constant forbearance is always beneficial. He details the systemic risks of perpetual leniency: subordinates and dependents may disrespect authority, appropriate resources, disregard obligations, and destabilize household order. He then outlines risks of tejas when driven by rajas and anger: misapplied punishments, conflict with allies, social hatred, material loss, and eventual collapse of authority; people fear the harsh ruler as they would a dangerous presence. Prahlāda concludes with a rule of timing: be gentle when appropriate and severe when appropriate; such discernment yields well-being here and beyond. He enumerates ‘kṣamā-kālāḥ’—conditions warranting forgiveness (e.g., prior benefactors, the ignorant, first offenses, inadvertent harms, and prudential considerations of place/time/strength and public risk). Draupadī then interprets the present as a ‘tejas-time’ regarding the persistently harmful Dhārtarāṣṭras, asserting that no current occasion for forbearance remains, while acknowledging that both softness and sharpness have social consequences and that the wise ruler knows their proper timing.
Chapter Arc: वनवास के बीच युधिष्ठिर अपने ही मन के भीतर उठते ज्वार को पहचानते हैं—क्रोध को ‘मनुष्यों का हन्ता’ कहकर वे स्वयं से और अपने निकट जनों से प्रश्न करते हैं कि लोक-नाशक इस अग्नि को कोई धर्मात्मा कैसे आश्रय दे सकता है। → वे क्रोध के परिणामों का क्रमशः विस्तार करते हैं: क्रोध से प्रजा का विनाश, बुद्धि का क्षय, शान्ति का लोप और संबंधों का टूटना। फिर वे प्रतिपक्ष (सुयोधन) के वध तक की इच्छा को भी क्रोधजन्य प्रलोभन मानकर कठोर आत्मसंयम का आग्रह करते हैं—यहाँ नैतिक संघर्ष तीव्र होता है, क्योंकि अन्याय का प्रतिकार और क्षमा का व्रत आमने-सामने खड़े हैं। → युधिष्ठिर का निर्णायक कथन उभरता है: ‘संपूर्ण लोक के संकुपित होने पर भी शम (शान्ति) ही प्रजाओं के संधि-मूल है’—और ‘सर्व आपत्तियों में क्षमा’ को पुरुषार्थ का शिखर बताकर वे क्रोध-त्याग को ही सच्चा तेज घोषित करते हैं। → अध्याय का निष्कर्ष यह बनता है कि वास्तविक तेज वह है जिसमें भीतर क्रोध का निवास नहीं; जो उत्पन्न क्रोध को बुद्धि से दबा देता है, वही तत्त्वदर्शियों की दृष्टि में तेजस्वी है। युधिष्ठिर क्षमा को नीति, आत्मरक्षा और लोक-कल्याण—तीनों का आधार ठहराते हैं। → क्षमा का यह आदर्श-निर्णय आगे के व्यवहार में कैसे टिकेगा—विशेषतः सुयोधन के अन्याय और भविष्य के संघर्षों के सामने—यह प्रश्न अनुत्तरित रहकर अगले प्रसंगों की ओर संकेत करता है।
Verse 1
#:2:8 #:23:.7 () हि २ 7 एकोनत्रिशो< ध्याय: युधिष्ठिरके द्वारा क्रोधकी निन्दा और क्षमाभावकी विशेष प्रशंसा युधिछिर उवाच क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुन: । इति विद्धि महाप्राज्ञे क्रोधमूली भवाभवौ
युधिष्ठिर उवाच— क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः। इति विद्धि महाप्राज्ञे क्रोधमूली भवाभवौ॥
Verse 2
यो हि संहरते क्रोधं भवस्तस्य सुशोभने । यः पुन: पुरुष: क्रोधं नित्यं न सहते शुभे । तस्याभावाय भवति क्रोध: परमदारुण:
यो हि संहरते क्रोधं भवस्तस्य सुशोभने। यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे। तस्याभावाय भवति क्रोधः परमदारुणः॥
Verse 3
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते । तत् कथं मादृश: क्रोधमुत्सूजेल्लोकनाशनम्
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते। तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्॥
Verse 4
क्रुद्ध: पापं नर: कुर्यात् क्रुद्धों हन्याद् गुरूनपि । क्रुद्ध: परुषया वाचा श्रेयसो5प्यवमन्यते
क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरूनपि । क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥
Verse 5
वाच्यावाच्ये हि कुपितो न प्रजानाति कहिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥
Verse 6
हिंस्यात् क्रोधादवध्यांस्तु वध्यान् सम्पूजयीत च । आत्मानमपि च क्रुद्धः प्रेषयेद् यमसादनम्
हिंस्यात् क्रोधादवध्यांस्तु वध्यान् सम्पूजयीत च । आत्मानमपि च क्रुद्धः प्रेषयेद् यमसादनम् ॥
Verse 7
एतान् दोषान् प्रपश्यद्धिर्जित: क्रोधो मनीषिभि: । इच्छद्धि: परमं श्रेय इह चामुत्र चोत्तमम्
एतान् दोषान् प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः । इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥
Verse 8
त॑ं क्रोध॑ वर्जितं धीरै: कथमस्मद्विधश्चरेत् । एतद् द्रौपदि संधाय न मे मन्यु: प्रवर्धते
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् । एतद् द्रौपदि संधाय न मे मन्युः प्रवर्धते ॥
Verse 9
आत्मानं च परांश्चैव त्रायते महतो भयात् | क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सक:
आत्मानं च परांश्चैव त्रायते महतो भयात् । क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः ॥
Verse 10
मूढो यदि क्लिश्यमान: क्रुध्यते5शक्तिमान् नर: । बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान् नरः । बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना ॥
Verse 11
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मन: । तस्माद् द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः । तस्माद् द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥
Verse 12
विद्वांस्तथैव य:ः शक्तः क्लिश्यमानो न कुप्यति | अनाशयित्वा कलेष्टारं परलोके च नन्दति
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति । अनाशयित्वा कलेष्टारं परलोके च नन्दति ॥
Verse 13
तस्माद् बलवता चैव दुर्बलेन च नित्यदा । क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता,इसलिये बलवान् या निर्बल सभी विज्ञ मनुष्योंको सदा आपत्तिकालमें भी क्षमाभावका ही आश्रय लेना चाहिये
तस्माद् बलवता चैव दुर्बलेन च नित्यदा । क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥
Verse 14
मन्योहिं विजयं कृष्णे प्रशंसन््तीह साधव: । क्षमावतो जयो नित्यं साधोरिह सतां मतम्
मन्ये हि विजयं क्रोधे प्रशंसन्तीह साधवः। क्षमावतो जयो नित्यं साधोरिह सतां मतम्, कृष्ण॥
Verse 15
सत्यं चानृततः श्रेयो नृशंस्याच्चानृशंसता । तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्
सत्यं चानृततः श्रेयो नृशंस्याच्चानृशंसता। तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्॥
Verse 16
तेजस्वीति यमाहुर्व पण्डिता दीर्घदर्शिन:
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः॥
Verse 17
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते॥
Verse 18
क्रुद्धों हि कार्य सुश्रोेणि न यथावत् प्रपश्यति । नाकार्य न च मर्यादां नर: क्रुद्धोडनुपश्यति
क्रुद्धो हि कार्यं सुश्रोणि न यथावत् प्रपश्यति। नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति॥
Verse 19
हन्त्यवध्यानपि क्ुद्धो गुरून् क्रुद्धस्तुदत्यपि । तस्मात् तेजसि कर्तव्य: क्रोधो दूरे प्रतिष्ठित:
युधिष्ठिर उवाच— क्रुद्धो मनुष्यः अवध्यानपि हन्ति; क्रुद्धः गुरूनपि कटुवाक्यैः तुदति। तस्मात् यस्य तेजः स्यात्, स क्रोधं स्वस्माद् दूरे प्रतिष्ठापयेत्।
Verse 20
दाक्ष्यं हमर्ष: शौर्य च शीघ्रत्वमिति तेजस: । गुणा! क्रोधाभिभूतेन न शक््या: प्राप्तुमजजसा
युधिष्ठिर उवाच— दाक्ष्यं अमर्षः शौर्यं च शीघ्रत्वमिति तेजसः गुणाः। क्रोधाभिभूतेन तु पुरुषेण एते गुणाः सहजं न प्राप्यन्ते।
Verse 21
क्रोधं॑ त्यक्त्वा तु पुरुष: सम्यक् तेजो5भिपद्यते । कालयुक्तं महा प्राज्ञे क्रुद्धैेस््तेज: सुदुःसहम्
युधिष्ठिर उवाच— क्रोधं त्यक्त्वा तु पुरुषः सम्यक् तेजोऽभिपद्यते। महाप्राज्ञ! क्रुद्धेषु पुरुषेषु कालयुक्तं तेजः परैः प्रयुक्तं सुदुःसहम्।
Verse 22
क्रोधस्त्वपण्डितै: शश्वत् तेज इत्यभिनिश्चितम् । रजस्तु लोकनाशाय विहितं मानुषं प्रति
युधिष्ठिर उवाच— अपण्डितैः क्रोध एव शश्वत् तेज इति निश्चीयते। किन्तु रजोगुणसमुत्थः स क्रोधो मनुष्येषु प्रयुक्तः लोकनाशहेतुः भवति।
Verse 23
तस्माच्छश्वत् त्यजेत् क्रोधं पुरुष: सम्यगाचरन् | श्रेयान् स्वधर्मानपगो न क्ुद्ध इति निश्चितम्
युधिष्ठिर उवाच— तस्मात् सम्यगाचरन् पुरुषः शश्वत् क्रोधं त्यजेत्। निश्चितं हि— स्वधर्मात् पतितोऽपि श्रेयान्, न तु क्रुद्धः; क्रोधो हि विवेकाचारौ नाशयति।
Verse 24
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् | अतिक्रमो मद्विधस्य कथंस्वित् स्यादनिन्दिते
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् । अतिक्रमो मद्विधस्य कथंस्वित् स्यादनिन्दिते, साध्वी द्रौपदी ॥
Verse 25
यदि न स्युर्मानुषेषु क्षमिण: पृथिवीसमा: । न स्यात् संधिर्मनुष्याणां क्रोधमूलो हि विग्रह:
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः । न स्यात् संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥
Verse 26
अभिषक्तो हाभिषजेदाहन्याद् गुरुणा हतः । एवं विनाशो भूतानामथधर्म: प्रथितो भवेत्
अभिषक्तो ह्यभिषजेदाहन्याद् गुरुणा हतः । एवं विनाशो भूतानामथाधर्मः प्रथितो भवेत् ॥
Verse 27
आद्ुष्ट: पुरुष: सर्व प्रत्याक्रोशेदनन्तरम् । प्रतिहन्याद्धतश्चलैव तथा हिंस्याच्च हिंसित:
अदुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् । प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥
Verse 28
हन्युहिं पितर: पुत्रान् पुत्राश्ापि तथा पितृन् | हन्युश्व पतयो भार्या: पतीन् भार्यास्तथैव च,पिता पुत्रोंको मारेंगें और पुत्र पिताको, पति पत्नियोंकों मारेंगे और पत्नियाँ पतिको
हन्युर्हि पितरः पुत्रान् पुत्राश्चापि तथा पितॄन् । हन्युश्च पतयो भार्याः पतीन् भार्यास्तथैव च ॥
Verse 29
एवं संकुपिते लोके शम: कृष्णे न विद्यते । प्रजानां संधिमूलं हि शमं विद्धि शुभानने
युधिष्ठिर उवाच— एवं संकुपिते लोके शमः कृष्णे न विद्यते। प्रजानां सन्धिमूलं हि शमं विद्धि शुभानने, कृष्णे॥
Verse 30
ताः क्षिपेरन् प्रजा: सर्वाः क्षिप्रं द्रौपदि तादृशे । तस्मान्मन्युविनाशाय प्रजानामभवाय च
युधिष्ठिर उवाच— ताः क्षिपेरन् प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे। तस्मान्मन्युविनाशाय प्रजानामभवाय च॥
Verse 31
यस्मात् तु लोके दृश्यन्ते क्षमिण: पृथिवीसमा: । तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते,इस जगतमें पृथ्वीके समान क्षमाशील पुरुष भी देखे जाते हैं, इसीलिये प्राणियोंकी उत्पत्ति और वृद्धि होती रहती है
यस्मात् तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते॥
Verse 32
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशो भने । क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्,सुशोभने! पुरुषको सभी आपत्तियोंमें क्षमाभाव रखना चाहिये। क्षमाशील पुरुषसे ही समस्त प्राणियोंका जीवन बताया गया है
युधिष्ठिर उवाच— क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने। क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्॥
Verse 33
आक्रुष्टस्ताडित: क्रुद्धः क्षमते यो बलीयसा । यश्व नित्यं जितक्रोधो विद्वानुत्तमपूरुष:
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा। यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः॥
Verse 34
प्रभाववानपि नरस्तस्य लोका: सनातना: । क्रोधनस्त्वल्पविज्ञान: प्रेत्य चेह च नश्यति
प्रभाववानपि नरस्तस्य लोकाः सनातनाः । क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥
Verse 35
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् | गीता: क्षमावता कृष्णे काश्यपेन महात्मना
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावता कृष्णे काश्यपेन महात्मना ॥
Verse 36
क्षमा धर्म: क्षमा यज्ञ: क्षमा वेदा: क्षमा: श्रुतम् । य एतदेवं जानाति स सर्व क्षन्तुमहति
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । य एतदेवं जानाति स सर्वं क्षन्तुमर्हति ॥
Verse 37
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तप: क्षमा शौचं क्षमयेदं धृतं जगत्
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥
Verse 38
अति यज्ञविदां लोकान् क्षमिण: प्राप्तुवन्ति च । अति ब्रह्मविदां लोकानति चापि तपस्विनाम्,क्षमाशील मनुष्य यजवेत्ता, ब्रह्मवेत्ता और तपस्वी पुरुषोंसे भी ऊँचे लोक प्राप्त करते हैं
अति यज्ञविदां लोकान् क्षमिणः प्राप्तुवन्ति च । अति ब्रह्मविदां लोकान् अति चापि तपस्विनाम् ॥
Verse 39
अन्ये वै यजुषां लोका: कर्मिणामपरे तथा । क्षमावतां ब्रह्मलोके लोका: परमपूजिता:
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा । क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥
Verse 40
क्षमा तेजस्विनां तेज: क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञ: क्षमा शम:
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥
Verse 41
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्न घिषछिता:
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च प्रतिष्ठिताः ॥
Verse 42
क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्व ब्रह्म सम्पद्यते तदा,विद्वान पुरुषको सदा क्षमाका ही आश्रय लेना चाहिये। जब मनुष्य सब कुछ सहन कर लेता है, तब वह ब्रह्मभावको प्राप्त हो जाता है
क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥
Verse 43
क्षमावतामयं लोक: परश्रैव क्षमावताम् | इह सम्मानमृच्छन्ति परत्र च शुभां गतिम्
क्षमावतामयं लोकः परश्चैव क्षमावताम् । इह सम्मानमृच्छन्ति परत्र च शुभां गतिम् ॥
Verse 44
येषां मन्युर्मनुष्याणां क्षमयाभिहत: सदा । तेषां परतरे लोकास्तस्मात् क्षान्ति: परा मता
येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा । तेषां परतरे लोकास्तस्मात् क्षान्तिः परा मता ॥
Verse 45
इति गीता: काश्यपेन गाथा नित्यं क्षमावताम् | श्रुत्वा गाथा: क्षमायास्त्व॑ तुष्य द्रौपदि मा क्रुध:
इति गीता काश्यपेन गाथा नित्यं क्षमावताम् । श्रुत्वा गाथां क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥
Verse 46
पितामह: शान्तनव: शमं सम्पूजयिष्यति । कृष्णश्न देवकीपुत्र: शमं सम्पूजयिष्यति,मेरे पितामह शान्तनुनन्दन भीष्म शान्तिभावका ही आदर करेंगे। देवकीनन्दन श्रीकृष्ण भी शान्तिभावका ही आदर करेंगे
पितामहः शान्तनवः शमं सम्पूजयिष्यति । कृष्णश्च देवकीपुत्रः शमं सम्पूजयिष्यति ॥
Verse 47
आचार्यो विदुर: क्षत्ता शममेव वदिष्यत: । कृपश्च संजयश्चैव शममेव वदिष्यत:,आचार्य द्रोण और विदुर भी शान्तिको ही अच्छा कहेंगे। कृपाचार्य और संजय भी शान्त रहना ही अच्छा बतायेंगे
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः । कृपश्च संजयश्चैव शममेव वदिष्यतः ॥
Verse 48
सोमदत्तो युयुत्सुश्न द्रोणपुत्रस्तथैव च । पितामहश्न नो व्यास: शमं वदति नित्यश:,सोमदत्त, युयुत्सु, अश्वत्थामा तथा हमारे पितामह व्यास भी सदा शान्तिका ही उपदेश देते हैं
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च । पितामहश्च नो व्यासः शमं वदति नित्यशः ॥
Verse 49
एतैहिं राजा नियतं चोद्यमान: शमं प्रति | राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति
यद्येते जनाः राजानं धृतराष्ट्रं पुनः पुनः शमं प्रति नियतं चोदयिष्यन्ति, तदा स मे राज्यं दास्यतीति मे बुद्धिर्दृढा। अथ न दास्यति चेत्, लोभेनैव न स्थास्यति—विनश्यिष्यति।
Verse 50
कालो<यं दारुण: प्राप्तो भरतानामभूतये । निश्चितं मे सदैवैतत् पुरस्तादपि भाविनि
कालोऽयं दारुणः प्राप्तो भरतानामभूतये। निश्चितं मे सदैवैतत्—पुरस्तादपि भाविनि।
Verse 51
सुयोधनो नार्हतीति क्षमामेवं न विन्दति । अहहस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा
‘सुयोधनो नार्हती’ति मन्ये—ततो मे क्षमा न विन्दति। ‘अहो, तत्राहमेव’ इति चिन्तयतः पुनर्मां क्षमा विन्दते।
Verse 52
इस समय भरतवंशके विनाशके लिये यह बड़ा भयंकर समय आ गया है। भामिनि! मेरा पहलेसे ही ऐसा निश्चित मत है कि सुयोधन कभी भी इस प्रकार क्षमा-भावको नहीं अपना सकता, वह इसके योग्य नहीं है। मैं इसके योग्य हूँ, इसलिये क्षमा मेरा ही आश्रय लेती है ।।
एतदात्मवतां वृत्तमेष धर्मः सनातनः। क्षमा चैवानृशंस्यं च तद् कर्तास्म्यहमञ्जसा। सुयोधनो न हि तथा क्षमाभावं समाश्रयितुं शक्नोति; अहं तु तदर्हः, तस्मात् क्षमा मय्येवाश्रयं लभते।
Verse 153
मादृश: प्रसजेत् कस्मात् सुयोधनवधादपि । झूठसे सत्य श्रेष्ठ है। क्रूरतासे दयालुता श्रेष्ठ है
मादृशः प्रसजेत् कस्मात् क्रोधं सुयोधनवधादपि? सत्यं हि मिथ्याया वरं, दया च क्रूरताया वरम्। तस्माद् दुर्योधनोऽपि मां हन्यात्, तथापि बहुदोषपूर्णं सत्पुरुषैः परित्यक्तं क्रोधं मादृशः कथं प्रयुञ्जीत?
Verse 163
न क्रोधो5भ्यन्तरस्तस्य भवतीति विनिश्चितम् । दूरदर्शी विद्वान जिसे तेजस्वी कहते हैं, उसके भीतर क्रोध नहीं होता; यह निश्चित बात है
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् । दूरदर्शी विद्वान् यं तेजस्विनं प्राहुस्तस्यान्तः क्रोधो न विद्यते ॥
Verse 173
तेजस्विनं त॑ विद्वांसो मन्यन्ते तत्त्वदर्शिन: । जो उत्पन्न हुए क्रोधको अपनी बुद्धिसे दबा देता है, उसे तत्त्वदर्शी विद्वान् तेजस्वी मानते हैं
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः । उत्पन्नं क्रोधं यो बुद्ध्या निगृह्णाति स तेजस्वी ॥
The dilemma is governance under provocation: whether a leader should prioritize forbearance (kṣamā) to avoid escalation or assertive enforcement (tejas) to prevent exploitation—resolved by rejecting fixed rules and requiring contextual judgment.
Ethical action is conditional, not absolute: restraint without discernment invites disorder, while power without restraint invites fear and collapse; the stable path is calibrated response guided by time, place, capability, and the nature of the offense.
No explicit phalaśruti is stated; the chapter’s meta-claim is pragmatic-ethical: the ruler who knows when to be gentle and when to be severe attains well-being ‘here and hereafter,’ positioning discernment itself as the chapter’s implied soteriological and political value.
Read Mahabharata in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.