Udyoga-parva Adhyāya 47 — Arjuna’s Deterrent Declaration
Sañjaya’s Report
संजय उवाच दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमान: । युधिष्ठिरस्यानुमते महात्मा धनंजय: शृण्वत: केशवस्य
संजय उवाच—राजन्, युधिष्ठिरस्यानुमते युद्धाय समुत्थितो महात्मा धनञ्जयः केशवस्य शृण्वतः सन्निधौ यदब्रवीत्, तदिदानीं दुर्योधनो वाचमिमां शृणोतु।
संजय उवाच