भीष्मदर्शनार्थं प्रस्थानम्
Departure to Behold Bhīṣma
तत उत्थाय दाशार्ह: स्नात: प्राउ्जलिरच्युत: । जप्त्वा गुह्ंं महाबाहुरग्नीनाश्रित्य तस्थिवान्
tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ | japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān ||
ततः शय्यायाः समुत्थाय दाशार्होऽच्युतो महाबाहुः स्नात्वा प्राञ्जलिः स्थितः। गूढं गायत्रीं जप्त्वा च हुताग्नीन् आश्रित्य तस्थौ, नित्याचारमर्यादायां कदाचन न च्युतः॥
वैशम्पायन उवाच