Adhyaya 41
Skandha 9 - Devotion & Grace of the GoddessAdhyaya 4160 Verses

Adhyaya 41

The Tale of Sri Lakshmi: The Discourse on Prosperity and the Churning of the Ocean

अस्मिन् अध्याये नारायणः नारदाय इन्द्रस्य शापस्य परिणामं वर्णयति। ब्रह्मा इन्द्रं तस्य अहङ्कारस्य कृते भर्त्सयति, येन सः दुर्वाससं अपमानितवान्। लक्ष्मीः स्वर्गं त्यजति। देवाः वैकुण्ठं गत्वा विष्णोः शरणं गच्छन्ति। विष्णुः लक्ष्म्याः निवासस्य कारणानां वर्णनं करोति। ततः समुद्रमन्थनं भवति, यस्मात् लक्ष्मीः उद्भवति, विष्णुं वरयति, देवानां ऐश्वर्यं च पुनः ददाति।

Shlokas

Verse 1

श्रीलक्ष्म्युपाख्यानवर्णनम् श्रीनारायण उवाच हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् । बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह

श्रीलक्ष्म्युपाख्यानवर्णनम् श्रीनारायण उवाच हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् । बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह

Verse 2

शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्‍भवम् । प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह

शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्‍भवम् । प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह

Verse 3

वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति । प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः

वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति । प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः

Verse 4

ब्रह्मोवाच वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः । बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम्

ब्रह्मोवाच वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः । बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम्

Verse 5

मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् । कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत्

मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् । कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत्

Verse 6

माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः । मातामहो मातुलश्च कथं सोऽहङ्‌कृतो भवेत्

माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः । मातामहो मातुलश्च कथं सोऽहङ्‌कृतो भवेत् ॥

Verse 7

जनः पैतृकदोषेण दोषान्मातामहस्य च । गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद्‌ ध्रुवम्

जनः पैतृकदोषेण दोषान्मातामहस्य च । गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद्‌ ध्रुवम् ॥

Verse 8

सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः । यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत्

सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः । यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥

Verse 9

मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्‌करः । विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती

मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्‌करः । विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ॥

Verse 10

निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः । आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत्

निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः । आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत् ॥

Verse 11

आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः । यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः

आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः । यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥

Verse 12

अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् । यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया

अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् । यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥

Verse 13

शिवेन पूजितं पादपद्मं पुष्पेण येन च । तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया

शिवेन पूजितं पादपद्मं पुष्पेण येन च । तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥

Verse 14

तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् । सर्वेषां च सुराणां च तत्पूजापुरतो भवेत्

तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् । सर्वेषां च सुराणां च तत्पूजापुरतो भवेत् ॥

Verse 15

दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् । भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः

दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् । भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥

Verse 16

सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् । अधुना गच्छ वैकुण्ठं मया च गुरुणा सह

सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् । अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥

Verse 17

निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् । एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह

निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् । एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह ॥

Verse 18

तत्र गत्वा परब्रह्म भगवन्तं सनातनम् । दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा

तत्र गत्वा परब्रह्म भगवन्तं सनातनम् । दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा ॥

Verse 19

ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् । शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम्

ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् । शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम् ॥

Verse 20

चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् । भक्त्या चतुर्भिर्वेदैश्च गङ्‌गया परिवेष्टितम्

चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् । भक्त्या चतुर्भिर्वेदैश्च गङ्‌गया परिवेष्टितम् ॥

Verse 21

तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः । भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम्

तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः । भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम् ॥

Verse 22

वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः । रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः

वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः । रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः ॥

Verse 23

स ददर्श सुरगणं विपद्‌ग्रस्तं भयाकुलम् । रत्‍नभूषणशून्यं च वाहनादिविवर्जितम्

स ददर्श सुरगणं विपद्‌ग्रस्तं भयाकुलम् । रत्‍नभूषणशून्यं च वाहनादिविवर्जितम् ॥

Verse 24

शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् । उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः

शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् । उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः ॥

Verse 25

श्रीभगवानुवाच मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते । दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम्

श्रीभगवानुवाच मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते । दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥

Verse 26

किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् । हितं सत्यं सारभूतं परिणामसुखावहम्

किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् । हितं सत्यं सारभूतं परिणामसुखावहम्

Verse 27

जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम् । यथा तथाहं मद्‍भक्तपराधीनोऽस्वतन्त्रकः

जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम् । यथा तथाहं मद्‍भक्तपराधीनोऽस्वतन्त्रकः

Verse 28

यं यं रुष्टो हि मद्‍भक्तो मत्परो हि निरङ्‌कुशः । तद्‌गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम्

यं यं रुष्टो हि मद्‍भक्तो मत्परो हि निरङ्‌कुशः । तद्‌गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम्

Verse 29

दुर्वासाः शङ्‌करांशश्च वैष्णवो मत्परायणः । तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात्

दुर्वासाः शङ्‌करांशश्च वैष्णवो मत्परायणः । तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात्

Verse 30

यत्र शङ्‌खध्वनिर्नास्ति तुलसी न शिवार्चनम् । न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति

यत्र शङ्‌खध्वनिर्नास्ति तुलसी न शिवार्चनम् । न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति

Verse 31

मद्‍भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः । महारुष्टा महालक्ष्मीस्ततो याति पराभवम्

मद्‍भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः । महारुष्टा महालक्ष्मीस्ततो याति पराभवम्

Verse 32

मद्‍भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे । मम जन्मदिने वापि याति श्रीस्तद्‌गृहादपि

मद्‍भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे । मम जन्मदिने वापि याति श्रीस्तद्‌गृहादपि

Verse 33

मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् । यत्रातिथिर्न भुङ्‌क्ते च मत्प्रिया याति तद्‌गृहात्

मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् । यत्रातिथिर्न भुङ्‌क्ते च मत्प्रिया याति तद्‌गृहात्

Verse 34

यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः । पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः

यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः । पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः

Verse 35

महारुष्टा ततो याति मन्दिरात्कमलालया । शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः

महारुष्टा ततो याति मन्दिरात्कमलालया । शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः

Verse 36

याति रुष्टा तद्‌गृहाच्च देवाः कमलवासिनी । शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः

याति रुष्टा तद्‌गृहाच्च देवाः कमलवासिनी । शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः

Verse 37

तत्तोयपानभीता च कमला याति तद्‌गृहात् । अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः

तत्तोयपानभीता च कमला याति तद्‌गृहात् । अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः

Verse 38

ब्राह्मणः शूद्रयाजी च याति देवी च तद्‌गृहात् । अवीरान्नं च यो भुङ्‌क्ते तस्माद्याति जगत्प्रसूः

ब्राह्मणः शूद्रयाजी च याति देवी च तद्‌गृहात् । अवीरान्नं च यो भुङ्‌क्ते तस्माद्याति जगत्प्रसूः

Verse 39

तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् । निराशो ब्राह्मणो यत्र तद्‌गृहाद्याति मत्प्रिया

तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् । निराशो ब्राह्मणो यत्र तद्‌गृहाद्याति मत्प्रिया

Verse 40

सूर्योदये द्विजो भुङ्‌क्ते दिवास्वापी च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया

सूर्योदये द्विजो भुङ्‌क्ते दिवास्वापी च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया

Verse 41

आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही । अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया

आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही । अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया

Verse 42

स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः । शश्वद्वदति वाचालो याति सा तद्‌गृहात्सती

स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः । शश्वद्वदति वाचालो याति सा तद्‌गृहात्सती

Verse 43

शिरस्नातस्तु तैलेन योऽन्याङ्‌गं समुपस्पृशेत् । स्वाङ्‌गं च वादयेद्वाद्यं रुष्टा सा याति तद्‌गृहात्

शिरस्नातस्तु तैलेन योऽन्याङ्‌गं समुपस्पृशेत् । स्वाङ्‌गं च वादयेद्वाद्यं रुष्टा सा याति तद्‌गृहात्

Verse 44

व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया

व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया

Verse 45

ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् । जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः

ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् । जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः

Verse 46

यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा । तत्र तिष्ठति सा देवी सर्वमङ्‌गलमङ्‌गला

यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा । तत्र तिष्ठति सा देवी सर्वमङ्‌गलमङ्‌गला

Verse 47

यत्र प्रशंसा कृष्णस्य तद्‍भक्तस्य पितामह । सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्

यत्र प्रशंसा कृष्णस्य तद्‍भक्तस्य पितामह । सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्

Verse 48

यत्र शङ्‌खध्वनिः शङ्‌खः शिला च तुलसीदलम् । तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति

यत्र शङ्‌खध्वनिः शङ्‌खः शिला च तुलसीदलम् । तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति

Verse 49

शिवलिङ्‌गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् । दुर्गार्चनं तद्‌गुणाश्च तत्र पद्मनिवासिनी

शिवलिङ्‌गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् । दुर्गार्चनं तद्‌गुणाश्च तत्र पद्मनिवासिनी

Verse 50

विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् । अर्चनं सर्वदेवानां तत्र पद्ममुखी सती

विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् । अर्चनं सर्वदेवानां तत्र पद्ममुखी सती

Verse 51

इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः । क्षीरोदसागरे जन्म कलयाकलयेति च

इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः । क्षीरोदसागरे जन्म कलयाकलयेति च

Verse 52

इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च । मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज

इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च । मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज

Verse 53

इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने । देवाश्चिरेण कालेन ययुः क्षीरोदसागरम्

इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने । देवाश्चिरेण कालेन ययुः क्षीरोदसागरम्

Verse 54

मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् । कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः

मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् । कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः

Verse 55

धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् । नानारत्‍नं हस्तिरत्‍नं प्रापुर्लक्ष्मीं सुदर्शनम्

धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् । नानारत्‍नं हस्तिरत्‍नं प्रापुर्लक्ष्मीं सुदर्शनम्

Verse 56

वनमालां ददौ सा च क्षीरोदशायिने मुने । सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती

वनमालां ददौ सा च क्षीरोदशायिने मुने । सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती

Verse 57

देवैः स्तुता पूजिता च ब्रह्मणा शङ्‌करेण च । ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात्

देवैः स्तुता पूजिता च ब्रह्मणा शङ्‌करेण च । ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात्

Verse 58

प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्‌करम् । महालक्ष्मीप्रसादेन वरदानेन नारद

प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्‌करम् । महालक्ष्मीप्रसादेन वरदानेन नारद

Verse 59

इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् । सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि

इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् । सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि

Verse 999

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः

Frequently Asked Questions

She left because Indra, blinded by arrogance, disrespected the sacred garland given by Sage Durvasa, which was originally offered to Lord Shiva. This disrespect to a devotee and sacred prasada caused Lakshmi's departure.

Vishnu explains that Lakshmi resides where Lord Hari, Shiva, and Goddess Durga are worshipped, where the conch is blown, Tulasi is revered, and Brahmanas and guests are served with pure devotion.

Following Vishnu's instructions, the Devas and Asuras churned the Milky Ocean using Mount Mandara and the serpent Shesha. Goddess Lakshmi emerged from the ocean, chose Vishnu as her consort, and restored the Devas' prosperity through her grace.

Read Devi Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App