The Tale of Savitri: The Dialogue Between Yama and Savitri
अस्मिन् अध्याये सावित्री देवी राजाश्वपतेः भक्त्या प्रसन्ना भूत्वा तस्मै सन्तानवरं ददाति। तस्य सावित्री नाम्नी कन्या जायते या सत्यवन्तं पतिरूपेण वृणोति। विवाहस्य एकवर्षानन्तरं सत्यवतः मृत्युः भवति। यमराजः तस्य प्राणान् हरति, सावित्री च तमनुगच्छति। यमः तस्यै कर्मसिद्धान्तस्य गम्भीरं ज्ञानं ददाति।
Verse 1
सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् । ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम्

Verse 2
उवाच सा च राजानं प्रसन्ना सस्मिता सती । यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा

Verse 3
सावित्र्युवाच जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् । वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम्
सावित्र्युवाच जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् । वाञ्छितं तવ पत्न्याश्च सर्वं दास्यामि निश्चितम्
Verse 4
साध्वी कन्याभिलाषं च करोति तव कामिनी । त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च

Verse 5
इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह । राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह

Verse 6
आराधनाच्च सावित्र्या बभूव कमला परा । सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः

Verse 7
कालेन सा वर्धमाना बभूव च दिने दिने । रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा

Verse 8
सा वरं वरयामास द्युमत्सेनात्मजं तदा । सत्यवन्तं सत्यशीलं नानागुणसमन्वितम्

Verse 9
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् । सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ

Verse 10
स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः । जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया

Verse 11
जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः । निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान्

Verse 12
यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने । गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती

Verse 13
पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः । उवाच मधुरं साध्वीं साधूनां प्रवरो महान्

Verse 14
धर्मराज उवाच अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् । यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज

Verse 15
गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् । देहं च मम लोकं च नश्वरं नश्वरः सदा

Verse 16
भर्तुस्ते पूर्णकालो वै बभूव भारते सति । स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम्

Verse 17
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते

Verse 18
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा । स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत्

Verse 19
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् । लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम्

Verse 20
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः । कर्मणा च शिवत्वं च गणेशत्वं तथैव च

Verse 21
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा । स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा

Verse 22
कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः । स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा

Verse 23
कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा । कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा

Verse 24
कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा । कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा

Verse 25
दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा । इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः

Verse 999
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः।
Savitri was born as a boon from Goddess Savitri to King Ashvapati, who had performed intense austerities to obtain offspring. She was named after the Goddess in reverence.
Lord Yama explains the inescapable Law of Karma, stating that every being's birth, death, joys, sorrows, and even their species or divine status are determined entirely by their past actions.
Yama tells Savitri that a mortal composed of the five elements (Panchabhautika) cannot enter the realm of the dead; she would need to shed her physical body to accompany her husband's soul.
Read Devi Bhagavatam in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.