Adhyaya 1
Skandha 8 - Shakti Peethas & Sacred GeographyAdhyaya 149 Verses

Adhyaya 1

Devya Manave Varadanavarnanam: Devi Grants a Boon to Manu

अष्टमस्कन्धस्य प्रथमेऽध्याये जनमेजयः व्यासं जगदम्बिकायाः उपासनायाः स्वरूपस्य च विषये पृच्छति। व्यासः नारद-नारायणयोः संवादं वर्णयति। नारायणः देवीं परमार्थसत्यत्वेन निरूपयति। स्वायम्भुवमनुः देव्याः तपस्यां कृत्वा स्तोत्रं पठति। देवी प्रसन्ना भूत्वा तस्मै सृष्टिप्रवृत्तये वरं ददाति। ततः मनुः ब्रह्मणं सृष्ट्यर्थं स्थानं पृच्छति यदा पृथ्वी जले निमग्ना आसीत्।

Shlokas

Verse 1

भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् जनमेजय उवाच सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम्

जनमेजय उवाच सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम्

Verse 2

अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका । मन्वन्तरेषु सर्वेषु यद्यद्‌रूपेण पूज्यते

अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका । मन्वन्तरेषु सर्वेषु यद्यद्‌रूपेण पूज्यते

Verse 3

यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा । (शरीरेण च देवेशी पूजनीया फलप्रदा । येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ) देव्या विराट्स्वरूपस्य वर्णनं च यथातथम्

यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा । (शरीरेण च देवेशी पूजनीया फलप्रदा । येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ) देव्या विराट्स्वरूपस्य वर्णनं च यथातथम्

Verse 4

येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः । तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम्

येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः । तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम्

Verse 5

व्यास उवाच शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् । यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते

व्यास उवाच शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् । यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते

Verse 6

एवमेतन्नारदेन पृष्टो नारायणः पुरा । तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः

एवमेतन्नारदेन पृष्टो नारायणः पुरा । तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥

Verse 7

एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् । नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान्

एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् । नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान् ॥

Verse 8

तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्‍भवः । पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ

तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्‍भवः । पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ ॥

Verse 9

नारद उवाच देवदेव महादेव पुराणपुरुषोत्तम । जगदाधार सर्वज्ञ श्लाघनीयोरुसद्‍गुण

नारद उवाच देवदेव महादेव पुराणपुरुषोत्तम । जगदाधार सर्वज्ञ श्लाघनीयोरुसद्‍गुण ॥

Verse 10

जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम्

जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम् ॥

Verse 11

कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात्

कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥

Verse 12

कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा

कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥

Verse 13

एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि

एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि ॥

Verse 14

व्यास उवाच एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत्

व्यास उवाच एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत् ॥

Verse 15

श्रीनारायण उवाच शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्‍भ्रमे

श्रीनारायण उवाच शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्‍भ्रमे ॥

Verse 16

जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः

जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः

Verse 17

सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात्

सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात्

Verse 18

तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा

तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा

Verse 19

मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः

मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः

Verse 20

स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम्

स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम्

Verse 21

पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति

पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति

Verse 22

एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद्‌ विभुः

एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद्‌ विभुः

Verse 23

तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम्

तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम्

Verse 24

मनुरुवाच नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते

मनुरुवाच नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते

Verse 25

वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे

वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे

Verse 26

माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियंकरि

माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियंकरि

Verse 27

गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते

गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते

Verse 28

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते

Verse 29

यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम्

यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम्

Verse 30

ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा । पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात्

ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा । पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात्

Verse 31

मधुकैटभसम्भूतभयार्तः पद्मसम्भवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः

मधुकैटभसम्भूतभयार्तः पद्मसम्भवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः

Verse 32

त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती । दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया

त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती । दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया

Verse 33

स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च । ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे

स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च । ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे

Verse 34

ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः

ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः

Verse 35

कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् । नैर्ऋतो रक्षसां नाथः सोमो जातो ह्यपोमयः

कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् । नैर्ऋतो रक्षसां नाथः सोमो जातो ह्यपोमयः

Verse 36

त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि । नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः

त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि । नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः

Verse 37

श्रीनारायण उवाच एवं स्तुता भगवती दुर्गा नारायणी परा । प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः

श्रीनारायण उवाच एवं स्तुता भगवती दुर्गा नारायणी परा । प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः

Verse 38

देव्युवाच वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि । प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च

देव्युवाच वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि । प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च

Verse 39

मनुरुवाच यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे । तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया

मनुरुवाच यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे । तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया

Verse 40

देव्युवाच प्रजासर्गः प्रभवतु ममानुग्रहतः किल । निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम्

देव्युवाच प्रजासर्गः प्रभवतु ममानुग्रहतः किल । निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम्

Verse 41

यः कश्चित्पठते स्तोत्रं मद्‍भक्त्या त्वत्कृतं सदा । तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु

यः कश्चित्पठते स्तोत्रं मद्‍भक्त्या त्वत्कृतं सदा । तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु

Verse 42

जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् । सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः

जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् । सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः

Verse 43

श्रीनारायण उवाच एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः

श्रीनारायण उवाच एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः

Verse 44

अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् । ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः

अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् । ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः

Verse 45

यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम्

यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम्

Verse 46

इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः । चिन्तयामास सुचिरं कथं कार्यं भवेदिदम्

इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः । चिन्तयामास सुचिरं कथं कार्यं भवेदिदम् ॥

Verse 47

सृजतो मे गतः कालो विपुलोऽनन्तसंख्यकः । धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया

सृजतो मे गतः कालो विपुलोऽनन्तसंख्यकः । धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया ॥

Verse 48

इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः । करिष्यति सहायो मे यदादेशेऽहमाश्रितः

इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः । करिष्यति सहायो मे यदादेशेऽहमाश्रितः ॥

Verse 999

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥

Frequently Asked Questions

Lord Narayana reveals that the supreme truth and the ultimate cause of creation, preservation, and destruction is the Devi. He explains that realizing her true nature is the only way to dispel the illusion of Maya.

Instructed by his father, Lord Brahma, Swayambhuva Manu performed rigorous penance and recited a powerful Stotra to worship the Devi. He sought her divine blessings to ensure the unhindered creation and expansion of his progeny.

Read Devi Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App