Adhyaya 32
Skandha 7 - Devi Gita & LiberationAdhyaya 3251 Verses

Adhyaya 32

Devya Vyashtisamashtirupavarnanam

अस्मिन् अध्याये देवी हिमालयं देवांश्च प्रति ब्रह्माण्डस्य उत्पत्तिं स्वस्य परब्रह्मस्वरूपं च वर्णयति। सा मायायाः स्वरूपं, पञ्चीकरणप्रक्रियां, सूक्ष्मशरीरस्य रचनां, ईश्वर-जीवयोः भेदं च विवृणोति।

Shlokas

Verse 1

देव्या व्यष्टिसमष्टिर्पवर्णनम् श्रीदेव्युवाच शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्‌रूपत्वं प्रपद्यते

श्रीदेव्युवाच शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्‌रूपत्वं प्रपद्यते

Verse 2

अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम्

अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम्

Verse 3

अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता

अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता

Verse 4

न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा

न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा

Verse 5

पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा

पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा

Verse 6

तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत्

तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत्

Verse 7

स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम्

स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम्

Verse 8

चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते

चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते

Verse 9

केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम्

केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम्

Verse 10

विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः

विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः

Verse 11

एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती

एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती

Verse 12

चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम्

चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम्

Verse 13

अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम्

अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम्

Verse 14

प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम

प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम

Verse 15

जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित्

जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित्

Verse 16

यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा

यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा

Verse 17

अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः

अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः

Verse 18

मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम

मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम

Verse 19

अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः

अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः

Verse 20

ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते

ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते

Verse 21

तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः

तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः

Verse 22

स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः

स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः

Verse 23

अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप

अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप

Verse 24

एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि

एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि

Verse 25

प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम्

प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम्

Verse 26

सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते

सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते

Verse 27

तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः

तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः

Verse 28

जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः

जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः

Verse 29

शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः

शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥

Verse 30

शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते

शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥

Verse 31

सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि

सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥

Verse 32

यस्मिञ्जगद्‌बीजरूपं स्थितं लिङ्गोद्‌भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः

यस्मिञ्जगद्‌बीजरूपं स्थितं लिङ्गोद्‌भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥

Verse 33

पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्‌ द्विधा

पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्‌ द्विधा ॥

Verse 34

एकैकं भागमेकस्य चतुर्धा विभजेद्‌ गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते

एकैकं भागमेकस्य चतुर्धा विभजेद्‌ गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥

Verse 35

तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्‌भवः

तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्‌भवः ॥

Verse 36

ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद्‌ वृत्तिभेदाच्चतुर्विधम्

ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद्‌ वृत्तिभेदाच्चतुर्विधम् ॥

Verse 37

यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्‌ बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम्

यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्‌ बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥

Verse 38

अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम्

अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥

Verse 39

तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा

तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा

Verse 40

हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद्‌ व्यानः सर्वशरीरगः

हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद्‌ व्यानः सर्वशरीरगः

Verse 41

ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः

ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः

Verse 42

एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता

एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता

Verse 43

सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते

सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते

Verse 44

तस्यां यत्प्रतिबिम्बं स्याद्‌बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः

तस्यां यत्प्रतिबिम्बं स्याद्‌बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः

Verse 45

सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप

सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप

Verse 46

तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया

तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया

Verse 47

देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः

देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः

Verse 48

स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः

स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः

Verse 49

प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया

प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥

Verse 50

करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः

करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥

Verse 999

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां सप्तमस्कन्धे देवीगीतायां देव्या व्यष्टिसमष्टिर्पवर्णनं नाम द्वात्रिंशोऽध्यायः

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां सप्तमस्कन्धे देवीगीतायां देव्या व्यष्टिसमष्टिर्पवर्णनं नाम द्वात्रिंशोऽध्यायः ॥

Frequently Asked Questions

Maya is the reflection of the Supreme Consciousness characterized by pure Sattva, which forms the omniscient and omnipotent Ishvara. Avidya is characterized by mixed Gunas, and the reflection of consciousness within it becomes the Jiva, who is bound by limitations and subject to sorrow.

The gross elements are formed through a process called Pancikarana (quintuplication). Each of the five subtle elements is divided in half, and one half is further divided into four parts. These parts are then combined with the halves of the other elements to form the physical universe.

The Jiva is described as having three bodies corresponding to three states: the causal body (Karana Deha) known as Prajna, the subtle body (Sukshma Deha) known as Taijasa, and the gross body (Sthula Deha) known as Vishva.

Read Devi Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App