Harishchandrachintavarnanam: Harishchandra's Lamentation at the Cremation Ground
शौनकः चण्डालसेवायाम् हरिश्चन्द्रस्य गतिं पृच्छति। सूतः कथयति यत् चण्डालः राजानं बद्ध्वा ताडयित्वा च शृङ्खलाबद्धं कृतवान्। हरिश्चन्द्रः स्वराज्य-पत्नी-पुत्रवियोगं स्मरन् निरन्तरं विलपति स्म। पञ्चमे दिने चण्डालः तं काश्यां श्मशानरक्षणाय मृतवस्त्राणां सङ्ग्रहाय च नियुक्तवान्। अस्मिन् अध्याये श्मशानस्य भीषणं दुर्गन्धयुक्तं च वर्णनं वर्तते। हरिश्चन्द्रः भस्मवसालिप्तः सन् मृतपिण्डैः जीवितं धारयति, किन्तु धर्मं न त्यजति।
Verse 1
हरिश्चन्द्रचिन्तावर्णनम् शौनक उवाच - ततः किमकरोद्राजा चाण्दालस्य गृहे गतः । तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे
हरिश्चन्द्रचिन्तावर्णनम् शौनक उवाच - ततः किमकरोद्राजा चाण्दालस्य गृहे गतः । तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे
Verse 2
सूत उवाच - विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्
सूत उवाच - विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्
Verse 3
असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा । दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम्
असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा । दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम्
Verse 4
इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः
इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः
Verse 5
निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत्
निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत्
Verse 6
तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः
तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः
Verse 7
उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति
उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति
Verse 8
तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति
तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति
Verse 9
न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः
न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः
Verse 10
ततश्चाण्डालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम्
ततश्चाण्डालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम्
Verse 11
निनाय दिवसान् राजा चतुरो विधिपीडितः । अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः
निनाय दिवसान् राजा चतुरो विधिपीडितः । अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः
Verse 12
चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः
चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः
Verse 13
काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् । तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित्
काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् । तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित्
Verse 14
इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दण्ड इति घोषस्व सर्वतः
इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दण्ड इति घोषस्व सर्वतः
Verse 15
सूत उवाच - कस्मिंश्चिदथ काले तु मृतचैलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः
सूत उवाच - कस्मिंश्चिदथ काले तु मृतचैलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः
Verse 16
चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम्
चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम्
Verse 17
पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम्
पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम्
Verse 18
श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृद्ध्रगोमायुसंकीर्णं श्ववृन्दपरिवारितम्
श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृद्ध्रगोमायुसंकीर्णं श्ववृन्दपरिवारितम्
Verse 19
अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसंकुलम् । अर्धदग्धशवास्यानि विकसद्दन्तपंक्तिभिः
अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसंकुलम् । अर्धदग्धशवास्यानि विकसद्दन्तपंक्तिभिः ॥
Verse 20
हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम्
हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥
Verse 21
हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे । हाप्यते भागिनेयार्ह हा मातुल पितामह
हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे । हाप्यते भागिनेयार्ह हा मातुल पितामह ॥
Verse 22
मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम्
मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥
Verse 23
ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते
ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥
Verse 24
कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत
कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत ॥
Verse 25
हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम्
हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम् ॥
Verse 26
ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विना धर्मं मनुष्याणां जायते न शुभं क्वचित्
ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥
Verse 27
यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः
यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥
Verse 28
मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च धावंश्चापि ततस्ततः
मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च धावंश्चापि ततस्ततः ॥
Verse 29
अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः । इदं मम इदं राज्ञ इदं चाण्डालकस्य च
अस्मिञ्छवे इदं मूल्यं शतं प्राप्स्यामि चाग्रतः। इदं मम इदं राज्ञे इदं चाण्डालस्य च॥
Verse 30
इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः । जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः
इत्येवं चिन्तयन् राजा दुस्तरां व्यवस्थां गतः। जीर्णैकवस्त्रग्रन्थिकृतकन्थां परिदधानः॥
Verse 31
चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः । नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन्
चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिः। नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन्॥
Verse 32
नानाशवौदनकृतक्षुन्निवृत्तिपरायणः । तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः
नानाशवौदनैः क्षुन्निवृत्तिं कुर्वन्। शवमाल्यैः अलङ्कृतमस्तकः॥
Verse 33
न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्षशतोपमाः
न रात्रौ न दिवा शेते हाहेति वदन् मुहुः। एवं द्वादश मासाः वर्षशतोपमाः नीताः॥
Verse 999
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः
इति श्रीमद्देवीभागवते महापुराणे अष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः॥
The Chandala assigned Harishchandra the gruesome task of guarding the cremation ground in Kashi and collecting the toll, including garments, from the corpses brought there.
The cremation ground is depicted as a terrifying, foul-smelling place filled with smoke, half-burnt corpses, howling jackals, vultures, and the heartbreaking wails of grieving relatives.
Despite his immense suffering and the loss of his kingdom, wife, and son, Harishchandra realizes that without Dharma, there is no auspiciousness, reinforcing his commitment to his righteous duty.
Read Devi Bhagavatam in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.