Adhyaya 7
Skandha 2 - Cosmic Dissolution & RebirthAdhyaya 769 Verses

Adhyaya 7

The Story of the Pandavas and the Vision of the Dead Warriors

अस्मिन् अध्याये कुरुक्षेत्रयुद्धस्य अनन्तरं धृतराष्ट्रस्य वनगमनं, विदुरस्य देहत्यागः, व्यासस्य प्रभावेण मृतवीराणां दर्शनं च वर्णितम्। धृतराष्ट्रः युधिष्ठिरात् धनं प्राप्य वनं गच्छति। तत्र विदुरस्य तेजः युधिष्ठिरे विलीयते। अनन्तरं व्यासः भुवनेश्वर्याः कृपया मृतपुत्राणां दर्शनं कारयति।

Shlokas

Verse 1

पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् सूत उवाच पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता । पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः

सूत उवाच - पञ्चानां पाण्डवानां द्रौपदी भार्या सा मान्या पतिव्रता च आसीत्। तस्याः पञ्च पुत्राः पितृभ्यः अतीव सुन्दराः अभवन्।

Verse 2

अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा । सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते

अर्जुनस्य अन्या भार्या कृष्णस्य शुभा भगिनी सुभद्रा आसीत्, या पूर्वं हरिणा सम्मते जिष्णुना हृता।

Verse 3

तस्यां जातो महावीरो निहतोऽसौ रणाजिरे । अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल

तस्यां महावीरोऽभिमन्युः जातः यः रणाङ्गणे निहतः। तत्र द्रौपद्याः पुत्राः अपि हताः।

Verse 4

अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी । कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः

अभिमन्योः वरा अतिसुन्दरी भार्या वैराटी (उत्तरा) कुलान्ते पुत्रं सुषुवे, सः शिशुः बाणाग्निना मृतः जातः।

Verse 5

जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् । द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्‌भुतेन च

सः तु स्वभगिनेयसुतः द्रौणिबाणाग्निना निर्दग्धः कृष्णेन स्वयम् अद्‌भुतेन प्रतापेन जीवितः।

Verse 6

परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले

यस्मात् परिक्षीणेषु वंशेषु अयं वरः सुतः जातः, तस्मात् सः पृथिवीतले परीक्षित् इति नाम्ना विख्यातः अभवत्।

Verse 7

निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः

पुत्रेषु निहतेषु धृतराष्ट्रः अतिदुःखितः अभवत्, सः भीमस्य वाग्बाणैः पीडितः पाण्डवराज्ये तस्थौ।

Verse 8

गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् । सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः

गान्धारी अपि पुत्रशोकातुरा तत्र अतिष्ठत्। आर्तः युधिष्ठिरः तयोः दिवारात्रं सेवां चकार।

Verse 9

विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् । युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत

अतिधर्मात्मा विदुरः अपि प्रज्ञानेत्रं (धृतराष्ट्रं) अबोधयत्। सः युधिष्ठिरस्य अनुमते भ्रातृपार्श्वे व्यतिष्ठत।

Verse 10

धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः । पुत्रशोकोद्‌भवं दुःखं तस्य विस्मारयन्निव

Verse 11

यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान्

Verse 12

मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे । दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम्

Verse 13

भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः । ध्वांक्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः

Verse 14

एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन्

Verse 15

अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम्

Verse 16

अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम्

Verse 17

वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन्

Verse 18

ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम्

Verse 19

एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने

Verse 20

समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने

Verse 21

तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत्

Verse 22

धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम्

Verse 23

तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना

Verse 24

विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः

Verse 25

देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम्

Verse 26

बृहन्नला कथं जिष्णुर्भवेद्‌बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः

Verse 27

गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम्

Verse 28

दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम्

Verse 29

अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः

Verse 30

कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः

Verse 31

मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः

Verse 32

दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया

Verse 33

इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः

Verse 34

कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः

Verse 35

कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः । प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च

Verse 36

सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रैर्निवार्यमाणापि शूरसेनसुता गता

Verse 37

विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः । गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम्

Verse 38

ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः

Verse 39

गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत्

Verse 40

स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता । मनो मे जायते द्रष्टुं मातरं पितरौ तथा

Verse 41

विदुरं च महात्मानं सञ्जयं च महामतिम् । रोचते यदि वः सर्वान् व्रजाम इति मे मतिः

Verse 42

ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा । वैराटी च महाभागा तथा नागरिको जनः

Verse 43

प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते

Verse 44

विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा । क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः

Verse 45

विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः । कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम्

Verse 46

गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः । ददर्श विदुरं क्षामं तपसा संशितव्रतम्

Verse 47

दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः । तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः

Verse 48

क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्‌भुतम् । लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम्

Verse 49

क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः । दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः

Verse 50

शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी । विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते

शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी । विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥

Verse 51

श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले । गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात्

श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले । गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥

Verse 52

स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह । तत्र सत्यवतीसूनुर्नारदश्च समागतः

स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह । तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥

Verse 53

मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् । कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम्

मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् । कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥

Verse 54

कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन

कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥

Verse 55

समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने

समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥

Verse 56

तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम्

तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥

Verse 57

द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः

द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥

Verse 58

प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः

प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥

Verse 59

सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले

सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥

Verse 60

प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा । देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम्

Verse 61

यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा । न वित्तपो नैव यमश्च पावक- स्तदासि देवि त्वमहं नमामि ताम्

Verse 62

जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् । मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम्

Verse 63

इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ । स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि

Verse 64

प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः । नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान्

Verse 65

सूत उवाच एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी । स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान्

Verse 66

दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा । पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान्

Verse 67

पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम्

Verse 68

तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा । राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि

Verse 999

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः

Frequently Asked Questions

Vidura is found practicing severe austerities in the forest. Upon seeing Yudhishthira, his life-force leaves his body and enters Yudhishthira, as both embody Dharma. An invisible voice instructs Yudhishthira not to cremate him.

Grieving for their lost sons, they request Sage Vyasa to show them Karna, Duryodhana, and Abhimanyu. Vyasa prays to the Supreme Goddess Bhuvaneshwari, who uses Her divine Maya to temporarily bring the fallen warriors from heaven.

Read Devi Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App