मन्त्रदीक्षाविधिवर्णनम् (Mantra Dīkṣā Vidhi Varṇanam)
अस्मिन् अध्याये नारदः नारायणं मन्त्रदीक्षाविधिं पृच्छति। नारायणः गुरोः कर्तव्यानि, भूतशुद्धिं, न्यासं, कलशस्थापनं, होमं, षडध्वशुद्धिं च विस्तरेण वर्णयति। अन्ते गुरुः शिष्याय महामन्त्रं ददाति, नारदश्च तपसे गच्छति।
Verse 1
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०७ वेदव्यासः ← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०६ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०७ वेदव्यासः देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८ → मन्त्रदीक्षाविधिवर्णनम् नारद उवाच श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् । स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम्
नारद उवाच श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् । स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम्
Verse 2
अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् । विना येन न सिध्येत देवीमन्त्रेऽधिकारिता
अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् । विना येन न सिध्येत देवीमन्त्रेऽधिकारिता
Verse 3
ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च । सामान्यविधिना सर्वं विस्तरेण वद प्रभो
ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च । सामान्यविधिना सर्वं विस्तरेण वद प्रभो
Verse 4
श्रीनारायण उवाच शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवाग्निगुरुपूजादावधिकारो यया भवेत्
श्रीनारायण उवाच शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवाग्निगुरुपूजादावधिकारो यया भवेत्
Verse 5
दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या । सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः
दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या । सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः
Verse 6
अवश्यं सा तु कर्तव्या यतो बहुफला मता । गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ
अवश्यं सा तु कर्तव्या यतो बहुफला मता । गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ
Verse 7
गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च । स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च
गुरुस्तु विधिवत्प्रातः कृत्यं सर्वं विधाय च । स्नानसन्ध्यादिकं सर्वं यथाविधि विधाय च
Verse 8
कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् । यागमण्डपमासाद्य विशेत्तत्रासने वरे
कमण्डलुकरो मौनी गृहं यायात्सरित्तटात् । यागमण्डपमासाद्य विशेत्तत्रासने वरे
Verse 9
आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् । सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत्
आचम्य प्राणानायम्य गन्धपुष्पविमिश्रितम् । सप्तवारास्त्रमन्त्रेण जप्तं वारि सुसाधयेत्
Verse 10
वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् । प्रोक्षयेद्द्वारमखिलं ततः पूजां समाचरेत्
वारिणा तेन मतिमानस्त्रमन्त्रं समुच्चरन् । प्रोक्षयेद्द्वारमखिलं ततः पूजां समाचरेत् ॥
Verse 11
ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् । सरस्वतीं नाममन्त्रैः पूजयेद्गन्धपुष्पकैः
ऊर्ध्वोदुम्बरके देवं गणनाथं तथा श्रियम् । सरस्वतीं नाममन्त्रैः पूजयेद्गन्धपुष्पकैः ॥
Verse 12
द्वारदक्षिणशाखायां गङ्गां विघ्नेशमर्चयेत् । द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम्
द्वारदक्षिणशाखायां गङ्गां विघ्नेशमर्चयेत् । द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम् ॥
Verse 13
देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः । सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः
देहल्यां पूजयेदस्त्रदेवतामस्त्रमन्त्रतः । सर्वं देवीमयं दृश्यमिति सञ्चिन्त्य सर्वतः ॥
Verse 14
दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु । अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान्
दिव्यानुत्सारयेद्विघ्नानस्त्रमन्त्रजपेन तु । अन्तरिक्षगतान्विघ्नान्पादघातैस्तु भूमिगान् ॥
Verse 15
वामशाखां स्पृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा । प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च
वामशाखां स्पृशन्पश्चात्प्रविशेद्दक्षिणाङ्घ्रिणा । प्रविश्य कुम्भं संस्थाप्य सामान्यार्घ्यं विधाय च ॥
Verse 16
तेन चार्घ्यजलेनापि नैर्ऋत्यां दिशि पूजयेत् । वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः
तेन चार्घ्यजलेनापि नैर्ऋत्यां दिशि पूजयेत् । वास्तुनाथं पद्मयोनिं गन्धपुष्पाक्षतादिभिः ॥
Verse 17
ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च । तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः
ततः कुर्यात्पञ्चगव्यं तेन चार्घ्योदकेन च । तोरणस्तम्भपर्यन्तं प्रोक्षयेन्मण्डपं गुरुः ॥
Verse 18
सर्वं देवीमयं चेदं भावयेन्मनसा किल । मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छराणुना
सर्वं देवीमयं चेदं भावयेन्मनसा किल । मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छराणुना ॥
Verse 19
शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् । हुंमन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः
शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् । हुंमन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः ॥
Verse 20
धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः । मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः
धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः । मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः
Verse 21
ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने । पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत्
ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने । पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत्
Verse 22
विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् । प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम्
विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् । प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम्
Verse 23
भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना । ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने
भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना । ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने
Verse 24
न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् । देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः
न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् । देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः
Verse 25
शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः । दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः
शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः । दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः
Verse 26
प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् । मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते
प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् । मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते
Verse 27
ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् । एवमेव तु सर्वेषु न्यसेत्स्थानेषु वै मुने
ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् । एवमेव तु सर्वेषु न्यसेत्स्थानेषु वै मुने
Verse 28
मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः । अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात्
मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः । अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात्
Verse 29
नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः । प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम्
नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः । प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम्
Verse 30
वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् । स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः
वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् । स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः ॥
Verse 31
ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् । दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च
ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् । दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च ॥
Verse 32
वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् । ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम्
वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् । ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम् ॥
Verse 33
वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः । नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत्
वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः । नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत् ॥
Verse 34
पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम । अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः
पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम । अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः ॥
Verse 35
मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले । प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान्
मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले । प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान् ॥
Verse 36
न्यसेत्कलायुतान्मन्त्री संक्षेपात्ता वदाम्यहम् । सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः
न्यसेत्कलायुतान्मन्त्री संक्षेपात्ता वदाम्यहम् । सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः ॥
Verse 37
दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् । सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि
दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् । सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि ॥
Verse 38
आत्मानमन्तरात्मानं परमात्मानमेव च । ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना
आत्मानमन्तरात्मानं परमात्मानमेव च । ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना ॥
Verse 39
अमुकासनाय नम इति मन्त्रेण साधकः । आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम्
अमुकासनाय नम इति मन्त्रेण साधकः । आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम् ॥
Verse 40
कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् । मानसैरुपचारैश्च पूजयेत्तां यथाविधि
कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् । मानसैरुपचारैश्च पूजयेत्तां यथाविधि
Verse 41
मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः । याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते
मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः । याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते
Verse 42
श्रीनारायण उवाच ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् । चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत्
श्रीनारायण उवाच ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् । चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत्
Verse 43
मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् । षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः
मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् । षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः
Verse 44
अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् । आधारपात्रमादाय शङ्खस्य मुनिसत्तम
अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् । आधारपात्रमादाय शङ्खस्य मुनिसत्तम
Verse 45
अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले । मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने
अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले । मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने
Verse 46
अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि । मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः
अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि । मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः
Verse 47
आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु । दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः
आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु । दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः
Verse 48
ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् । स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन्
ततो वै मूलमन्त्रेण प्रोक्षितं शङ्खमुत्तमम् । स्थापयेत्तत्र चाधारे मूलमन्त्रमनुस्मरन्
Verse 49
अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने । अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः
अं सूर्यमण्डलायोक्त्वा द्वादशान्ते कलात्मने । अमुकदेव्यर्घ्यपात्राय नम इत्युच्चरेत्ततः
Verse 50
शं शङ्खाय पदं प्रोच्य नम इत्येतदुच्चरेत् । प्रोक्षयेत्तेन तं शङ्खं तस्मिन्द्वादश पूजयेत्
'शं शङ्खाय नमः' इति प्रोच्य शङ्खं प्रोक्षयेत्। तस्मिन् द्वादश सूर्यकलाः पूजयेत्।
Verse 51
सूर्यस्य द्वादश कलास्तपन्याद्या यथाक्रमम् । विलोममातृकां प्रोच्य मूलमन्त्रं विलोमकम्
तपन्याद्याः सूर्यस्य द्वादश कलाः पूज्याः। विलोममातृकां मूलमन्त्रं च विलोमं जपेत्।
Verse 52
जलैरापूरयेच्छङ्खं तत्र चेन्दोः कलां न्यसेत् । ॐ सोममण्डलायोक्त्वान्ते षोडशकलात्मने
शङ्खं जलैः पूरयित्वा सोमस्य कलाः न्यसेत्। 'ॐ सोममण्डलाय षोडशकलात्मने' इति मन्त्रेण।
Verse 53
अमुकार्घ्यामृतायेति हृन्मन्त्रान्तो मनुः स्मृतः । पूजयेन्मनुना तेन जलं तु सृणिमुद्रया
'अमुकार्घ्यामृताय नमः' इति मन्त्रेण सृणिमुद्रया जलं पूजयेत्।
Verse 54
तीर्थान्यावाह्य तत्रैवाप्यष्टकृत्वो जपेन्मनुम् । षडङ्गानि जले न्यस्य हृदा संपूजयेदपः
तीर्थान्यावाह्य अष्टवारं मन्त्रं जपेत्। षडङ्गानि न्यस्य हृदा अपः पूजयेत्।
Verse 55
अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया । ततो दक्षिणदिग्भागे शङ्खस्य प्रोक्षणीं न्यसेत्
मूलमन्त्रं अष्टवारं जप्त्वा मत्स्यमुद्रया छादयेत्। शङ्खस्य दक्षिणे प्रोक्षणीं न्यसेत्।
Verse 56
शङ्खाम्बु किञ्चिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः । पूजाद्रव्यं निजात्मानं विशुद्धं भावयेत्ततः
शङ्खाम्बुना सर्वं प्रोक्ष्य आत्मानं पूजाद्रव्याणि च शुद्धं भावयेत्।
Verse 57
श्रीनारायणाय उवाच ततः स्वपुरतो वेद्यां सर्वतोभद्रमण्डलम् । संलिख्य कर्णिकामध्यं पूरयेच्छालितण्डुलैः
श्रीनारायण उवाच - सर्वतोभद्रमण्डलं विलिख्य तन्मध्ये शालितण्डुलैः पूरयेत्।
Verse 58
आस्तीर्य दर्भांस्तत्रैव न्यसेत्कूर्चं सलक्षणम् । आधारशक्तिमारभ्य पीठमन्वन्तमर्चयेत्
दर्भानास्तीर्य कूर्चं न्यसेत्। आधारशक्तिमारभ्य पीठमन्त्रपर्यन्तं अर्चयेत्।
Verse 59
निर्व्रणं कुम्भमादायाप्यस्त्राद्भिः क्षालितान्तरम् । तन्तुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च
निर्व्रणं कुम्भं अस्त्रमन्त्रक्षालितं रक्तसूत्रेण त्रिगुणेन वेष्टयेत्।
Verse 60
नवरत्नोदरं कूर्चयुतं गन्धादिपूजितम् । स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः
नवरत्नोदरं कूर्चयुतं गन्धादिपूजितम् । स्थापयेत्तत्र पीठे तु तारमन्त्रेण देशिकः
Verse 61
ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः । मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने
ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः । मातृकां प्रतिलोमेन जपंस्तीर्थोदकैर्मुने
Verse 62
मूलमन्त्रं च सञ्जप्य पूरयेद्देवताधिया । अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः
मूलमन्त्रं च सञ्जप्य पूरयेद्देवताधिया । अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः
Verse 63
छादयेत्कुम्भवदनं चषकं सफलाक्षतम् । संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत्
छादयेत्कुम्भवदनं चषकं सफलाक्षतम् । संस्थापयेत मतिमान् वस्त्रयुग्मेन वेष्टयेत्
Verse 64
प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् । आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम्
प्राणस्थापनमन्त्रेण प्राणस्थापनमाचरेत् । आवाहनादिमुद्राभिर्मोदयेद्देवतां पराम्
Verse 65
ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः । स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत्
ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः । स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत्
Verse 66
पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् । मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत्
पाद्यं दद्यात्ततोऽप्यर्घ्यं ततश्चाचमनीयकम् । मधुपर्कं च साभ्यङ्गं देव्यै स्नानं निवेदयेत्
Verse 67
वाससी च ततो दद्याद्रक्ते क्षौमे सुनिर्मले । नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः
वाससी च ततो दद्याद्रक्ते क्षौमे सुनिर्मले । नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः
Verse 68
मनुना पुटितैर्वर्णैर्मातृकाया विधानतः । देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत्
मनुना पुटितैर्वर्णैर्मातृकाया विधानतः । देव्या अङ्गेषु विन्यस्य चन्दनाद्यैः समर्चयेत्
Verse 69
गन्धः कालागुरुभवः कर्पूरेण समन्वितः । काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने
गन्धः कालागुरुभवः कर्पूरेण समन्वितः । काश्मीरं चन्दनं चापि कस्तूरीसहितं मुने
Verse 70
कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् । धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः
कुन्दपुष्पादिपुष्पाणि परदेव्यै समर्पयेत् । धूपोऽगुरुपुरुव्रातोशीरचन्दनशर्कराः
Verse 71
मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा । दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः
मधुमिश्राः स्मृता देव्याः प्रिया धूपात्मना सदा । दीपाननेकान्दत्त्वाथ नैवेद्यं दर्शयेत्सुधीः
Verse 72
प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा । ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च
प्रतिद्रव्यं जलं दद्यात्प्रोक्षणीस्थं न चान्यथा । ततः कुर्यादङ्गपूजां कल्पोक्तावरणानि च
Verse 73
साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् । दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम्
साङ्गां देवीमथाभ्यर्च्य वैश्वदेवं ततश्चरेत् । दक्षिणे स्थण्डिलं कृत्वा तत्राधाय हुताशनम्
Verse 74
मूर्तिस्थां देवतां तत्रावाह्य संपूज्य च क्रमात् । तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः
मूर्तिस्थां देवतां तत्रावाह्य संपूज्य च क्रमात् । तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण वै ततः
Verse 75
पञ्चविंशतिवारं तु पायसेन ससर्पिषा । हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने
पञ्चविंशतिवारं तु पायसेन ससर्पिषा । हुनेत्पश्चाद्व्याहृतिभिः पुनश्च जुहुयान्मुने
Verse 76
गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् । वह्निं विसृज्य हविषा परितो विकिरेद्बलिम्
गन्धाद्यैरर्चयित्वा च देवीं पीठे तु योजयेत् । वह्निं विसृज्य हविषा परितो विकिरेद्बलिम्
Verse 77
देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् । पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे
देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् । पञ्चोपचारान्दत्त्वाथ ताम्बूलं छत्रचामरे
Verse 78
दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् । जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते
दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् । जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते
Verse 79
कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् । रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा
कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् । रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा
Verse 80
अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् । कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम्
अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् । कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम् ॥
Verse 81
पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः । तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः
पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः । तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः ॥
Verse 82
श्रीनारायण उवाच ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने । प्रवक्ष्यामि समासेन यथाविधि विधानतः
श्रीनारायण उवाच ततः कुण्डस्य संस्कारं स्थण्डिलस्य व मुने । प्रवक्ष्यामि समासेन यथाविधि विधानतः ॥
Verse 83
मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः । प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु
मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः । प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु ॥
Verse 84
अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् । प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः
अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् । प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः ॥
Verse 85
प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् । आधारशक्तिमारभ्य पीठमन्त्रावसानकम्
प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् । आधारशक्तिमारभ्य पीठमन्त्रावसानकम् ॥
Verse 86
तस्मिन्पीठे समावाह्य शिवौ परमकारणौ । गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः
तस्मिन्पीठे समावाह्य शिवौ परमकारणौ । गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः ॥
Verse 87
देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु । कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत्
देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु । कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत् ॥
Verse 88
अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् । क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः
अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् । क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः ॥
Verse 89
संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् । चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत्
संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् । चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत् ॥
Verse 90
सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः । शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत्
सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः । शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत् ॥
Verse 91
अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः । कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः
अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः । कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः ॥
Verse 92
शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् । आचामयेत्ततो देवं देवीं च जगदम्बिकाम्
शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् । आचामयेत्ततो देवं देवीं च जगदम्बिकाम् ॥
Verse 93
चित्पिङ्गल हनदहपचयुग्मं ततः परम् । सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने
चित्पिङ्गल हनदहपचयुग्मं ततः परम् । सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने ॥
Verse 94
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम्
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥
Verse 95
मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् । ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः
मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् । ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः ॥
Verse 96
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः । धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात्
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः । धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात् ॥
Verse 97
जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् । ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम्
जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् । ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम् ॥
Verse 98
इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् । परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित्
इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् । परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित् ॥
Verse 99
दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ । त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम्
दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ । त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम् ॥
Verse 100
यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ । तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने
यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ । तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने ॥
Verse 101
वैश्वानर ततो जातवेदः पश्चादिहावह । लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय
वैश्वानर ततो जातवेदः पश्चादिहावह । लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय ॥
Verse 102
वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् । मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा
वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् । मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा ॥
Verse 103
रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका । पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम्
रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका । पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम् ॥
Verse 104
दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी । जातवेदाः सप्तजिह्वो हव्यवाहन एव च
दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी । जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥
Verse 105
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः । कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः । कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ॥
Verse 106
ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः । लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान्
ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः । लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान् ॥
Verse 107
श्रीनारायण उवाच ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च । कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम्
श्रीनारायण उवाच ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च । कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम् ॥
Verse 108
दक्षिणाद्घृतभागात्तु वह्नेर्दक्षिणलोचने । जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः
दक्षिणाद्घृतभागात्तु वह्नेर्दक्षिणलोचने । जुहुयादग्नये स्वाहेत्येवं वै वामतोऽन्यतः ॥
Verse 109
सोमाय स्वाहेति मध्याद्घृतमादाय सत्तम । अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः
सोमाय स्वाहेति मध्याद्घृतमादाय सत्तम । अग्नीषोमाभ्यां स्वाहेति मध्यनेत्रे हुनेत्ततः ॥
Verse 110
पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे । अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः
पुनर्दक्षिणभागात्तु घृतमादाय वै मुखे । अग्नये स्विष्टकृत्स्वाहेत्यनेनैव हुनेत्ततः ॥
Verse 111
सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः । जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम्
सताराभिर्व्याहृतिभिर्जुहुयादथ साधकः । जुहुयादग्निमन्त्रेण त्रिवारं तु ततः परम् ॥
Verse 112
ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः । गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने
ततस्तु प्रणवेनैवाप्यष्टावष्टौ घृताहुतीः । गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने ॥
Verse 113
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः । जातकर्म नामकर्माप्युपनिष्क्रमणं तथा
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः । जातकर्म नामकर्माप्युपनिष्क्रमणं तथा ॥
Verse 114
अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च । महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम्
अन्नाशनं तथा चूडा व्रतबन्धस्तथैव च । महानाम्न्यं व्रतं पश्चात्तथौपनिषदं व्रतम् ॥
Verse 115
गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः । ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत्
गोदानोद्वाहकौ प्रोक्ताः संस्काराः श्रुतिचोदिताः । ततः शिवं पार्वतीं च पूजयित्वा विसर्जयेत् ॥
Verse 116
जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः । पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत्
जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः । पश्चादावरणानां चाप्येकैकामाहुतिं हुनेत् ॥
Verse 117
घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च । पिधाय तां तु तेनैव मुने तिष्ठन्निजासने
घृतं स्रुचि समादाय चतुर्वारं स्रुवेण च । पिधाय तां तु तेनैव मुने तिष्ठन्निजासने ॥
Verse 118
वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः । महागणेशमन्त्रेण जुहुयादाहुतीर्दश
वौषडन्तेन मनुना वह्नेस्तु जुहुयात्ततः । महागणेशमन्त्रेण जुहुयादाहुतीर्दश ॥
Verse 119
वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् । वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसंख्यया
वह्नौ पीठं समभ्यर्च्य देयमन्त्रस्य देवताम् । वह्नौ ध्यात्वा तु तद्वक्त्रे पञ्चविंशतिसंख्यया ॥
Verse 120
मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च । वह्निदेवतयोरैक्यं भावयन्नात्मना सह
मूलमन्त्रेण जुहुयाद्वक्त्रैकीकरणाय च । वह्निदेवतयोरैक्यं भावयन्नात्मना सह
Verse 121
एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः । षडङ्गं देवतानां च जुहुयादाहुतीः पृथक्
एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः । षडङ्गं देवतानां च जुहुयादाहुतीः पृथक्
Verse 122
एकादशैव जुहुयादाहुतीर्मुनिसत्तम । एतेन नाडीसन्धानं वह्निदेवतयोर्मुने
एकादशैव जुहुयादाहुतीर्मुनिसत्तम । एतेन नाडीसन्धानं वह्निदेवतयोर्मुने
Verse 123
एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च । एकैकक्रमयोगेन घृतेन जुहुयान्मुने
एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च । एकैकक्रमयोगेन घृतेन जुहुयान्मुने
Verse 124
ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः । देवतामूलमन्त्रेण गजान्तकसहस्रकम्
ततः कल्पोक्तद्रव्यैस्तु जुहुयादथवा तिलैः । देवतामूलमन्त्रेण गजान्तकसहस्रकम्
Verse 125
एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने । तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि
एवं हुत्वा ततो देवीं सन्तुष्टां भावयेन्मुने । तथैवावृतिदेवीश्च वह्न्याद्या देवता अपि
Verse 126
ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् । वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम्
ततः शिष्यं च सुस्नातं कृतसम्यादिकक्रियम् । वस्त्रद्वययुतं स्वर्णाभरणेन समन्वितम्
Verse 127
कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् । नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः
कमण्डलुकरं शुद्धं कुण्डस्यान्तिकमानयेत् । नमस्कृत्य ततः शिष्यो गुरूनथ सभासदः
Verse 128
कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे । गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत्
कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे । गुरुस्ततस्तु तं शिष्यं कृपादृष्ट्या विलोकयेत्
Verse 129
तच्चैतन्यं निजे देहे भावयेत्सङ्गतं त्विति । ततः शिष्यतनुस्थानामध्वनां परिशोधनम्
तच्चैतन्यं निजे देहे भावयेत्सङ्गतं त्विति । ततः शिष्यतनुस्थानामध्वनां परिशोधनम्
Verse 130
कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् । येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे
कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् । येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे ॥
Verse 131
श्रीनारायण उवाच तनौ ध्यायेत्तु शिष्यस्य षडध्वनः कमेण तु । पादयोस्तु कलाध्वानमन्धौ [ १ ] तत्त्वाध्वकं पुनः
श्रीनारायण उवाच तनौ ध्यायेत्तु शिष्यस्य षडध्वनः क्रमेण तु । पादयोस्तु कलाध्वानमन्धौ तत्त्वाध्वकं पुनः ॥
Verse 132
नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि । पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि
नाभौ तु भुवनाध्वानं वर्णाध्वानं तथा हृदि । पदाध्वानं तथा भाले मन्त्राध्वानं तु मूर्धनि ॥
Verse 133
शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः । शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन्
शिष्यं स्पृशंस्तु कूर्चेन तिलैराज्यपरिप्लुतैः । शोधयाम्यमुमध्वानं स्वाहेति मनुमुच्चरन् ॥
Verse 134
ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि । षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत्
ताराढ्यं जुहुयादष्टवारं प्रत्यध्वमेव हि । षडध्वनस्ततस्तांस्तु लीनान् ब्रह्मणि भावयेत् ॥
Verse 135
पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः । आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत्
पुनरुत्पादयेत्तस्मात्सृष्टिमार्गेण वै गुरुः । आत्मस्थितं तच्चैतन्यं पुनः शिष्ये तु योजयेत् ॥
Verse 136
पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् । पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा
पूर्णाहुतिं ततो हुत्वा देवतां कलशे नयेत् । पुनर्व्याहृतिभिर्हुत्वा वह्नेरङ्गाहुतीस्तथा ॥
Verse 137
एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि । ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः
एकैकशो गुरुर्दत्त्वा विसृजेद्वह्निमात्मनि । ततः शिष्यस्य नेत्रे तु बध्नीयाद्वाससा गुरुः ॥
Verse 138
नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् । पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः
नेत्रमन्त्रेण तं शिष्यं कुण्डतो मण्डलं नयेत् । पुष्पाञ्जलिं मुख्यदेव्यां कारयेच्छिष्यहस्ततः ॥
Verse 139
नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे । भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना
नेत्रबन्धं निराकृत्य वेशयेत्कुशविष्टरे । भूतशुद्धिं शिष्यदेहे कुर्यात्प्रोक्तेन वर्त्मना ॥
Verse 140
मन्त्रोदितांस्तथा न्यासान्कृत्वा शिष्यतनौ ततः । मण्डले वेशयेच्छिष्यमन्यस्मिन्कुम्भसंस्थितान्
मन्त्रोदितान् न्यासान् शिष्यदेहे कृत्वा गुरुः अन्यस्मिन् मण्डले कुम्भस्थितजलैः शिष्यं वेशयेत्।
Verse 141
पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् । कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः
शिष्यशिरसि पल्लवान् विन्यस्य मातृकां जपेत्। कलशस्थदेवतात्मकजलैः शिष्यं स्नापयेत्।
Verse 142
वर्धनीजलसेकं च कुर्याद्रक्षार्थमञ्जसा । ततः शिष्यः समुत्थाय वाससी परिधाय च
रक्षार्थं वर्धनीजलसेकं कुर्यात्। ततः शिष्यः उत्थाय वाससी परिधाय च।
Verse 143
कृतभस्मावलेपश्च संविशेद्गुरुसन्निधौ । ततो गुरुः स्वकीयात्तु हृदयान्निर्गतां शिवाम्
भस्मावलेपं कृत्वा गुरुसन्निधौ संविशेत्। ततः गुरुः स्वहृदयात् निर्गतां शिवां भावयेत्।
Verse 144
प्रविष्टां शिष्यहृदये भावयेत्करुणानिधिः । पूजयेद्गन्धपुष्पाद्यैरैक्यं वै भावयंस्तयोः
शिष्यहृदये प्रविष्टां तां भावयेत्। गन्धपुष्पाद्यैः तयोः ऐक्यं भावयन् पूजयेत्।
Verse 145
ततस्त्रिंशो दक्षकर्णे शिष्यस्योपदिशेद्गुरुः । महामन्त्रं महादेव्याः स्वहस्तं शिरसि न्यसन्
ततः गुरुः शिष्यस्य शिरसि स्वहस्तं न्यसन् दक्षकर्णे महादेव्याः महामन्त्रं त्रिः उपदिशेत्।
Verse 146
अष्टोत्तरशतं मन्त्रं शिष्योऽपि प्रजपेन्मुने । दण्डवत्प्रणमेद्भूमौ तं गुरुं देवतात्मकम्
शिष्यः अपि अष्टोत्तरशतं मन्त्रं जपेत्। देवतात्मकं तं गुरुं भूमौ दण्डवत् प्रणमेत्।
Verse 147
सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः । ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्चापि भोजयेत्
अनन्यधीः यावज्जीवं तस्मै सर्वस्वं अर्पयेत्। ऋत्विग्भ्यः दक्षिणां दत्त्वा ब्राह्मणान् भोजयेत्।
Verse 148
सुवासिनीः कुमारीश्च बटुकांश्चैव सर्वशः । दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः
सुवासिनीः कुमारीः बटुकान् दीनानाथान् दरिद्रान् च वित्तशाठ्यविवर्जितः भोजयेत्।
Verse 149
कृतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् । इति ते कथितः सम्यग्दीक्षाविधिरनुत्तमः
स्वस्य कृतार्थतां बुद्ध्वा नित्यं मनुं आराधयेत्। इति ते सम्यक् अनुत्तमः दीक्षाविधिः कथितः।
Verse 150
विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते
विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते ॥
Verse 151
वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् । तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी
वैदिकः स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् । तान्त्रिकस्तन्त्ररीत्या तु स्थितिरेषा सनातनी ॥
Verse 152
तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा । श्रीनारायण उवाच इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया
तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा । श्रीनारायण उवाच इति सर्वं मयाख्यातं यत्पृष्टं नारद त्वया ॥
Verse 153
अतः परं पराम्बाया भज नित्यं पदाम्बुजम् । नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः
अतः परं पराम्बाया भज नित्यं पदाम्बुजम् । नित्यमाराध्य तच्चाहं निर्वृतिं परमां गतः ॥
Verse 154
व्यास उवाच इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् । समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम्
व्यास उवाच इति राजन्नारदाय प्रोक्त्वा सर्वमनुत्तमम् । समाधिमीलिताक्षस्तु दध्यौ देवीपदाम्बुजम् ॥
Verse 155
नारायणस्तु भगवान् मुनिवर्यशिखामणिः । नारदोऽपि ततो नत्वा गुरुं नारायणं परम् । जगाम सद्यस्तपसे देवीदर्शनलालसः
नारायणस्तु भगवान् मुनिवर्यशिखामणिः । नारदोऽपि ततो नत्वा गुरुं नारायणं परम् । जगाम सद्यस्तपसे देवीदर्शनलालसः ॥
Verse 999
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मन्त्रदीक्षाविधिवर्णनं नाम सप्तमोऽध्यायः ॥
Diksha is defined by experts of Vedas and Tantras as the sacred initiation that imparts divine knowledge, destroys sins, and grants the disciple the authority to worship deities, fire, and the Guru.
The Guru purifies the disciple's six cosmic paths (Shadadhvas - Kala, Tattva, Bhuvana, Varna, Pada, and Mantra), performs rituals to cleanse their soul, and spiritually transfers the divine presence of the Goddess from his own heart into the disciple's heart before whispering the mantra.
The Guru performs purification of the Mandapa, Bhuta Shuddhi, various Nyasas, Kalasha Sthapana, preparation of Arghya in a conch shell, worship of the Devi with Upacharas, and a detailed fire ritual (Homa).
Read Devi Bhagavatam in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.