Indra’s Query on Karma-vipāka and the Viśvarūpa Episode
Lalitopākhyāna Context
जगृहुर्नैव तां दैत्या असुराश्चाभवंस्ततः / सुरा न विद्यते येषां तेनैवासुरशब्दिताः
jagṛhurnaiva tāṃ daityā asurāścābhavaṃstataḥ / surā na vidyate yeṣāṃ tenaivāsuraśabditāḥ
दैत्या असुराश्च तां नैव जगृहुः, ततः ते ‘असुराः’ अभवन्। येषां सुरा न विद्यते, तेनैव ‘असुर’ इति शब्दिताः॥