Mantrarāja-sādhana Prakāra & Tripurā/Lalitā–Kāmākṣī Tattva
Lalitopākhyāna Context
पितामहस्तु हृष्टात्मा मुकुन्देन शिवेन च / सार्धं श्रीमन्दिरे तत्र मन्त्रोपेतां निवेश्य च / आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः
pitāmahastu hṛṣṭātmā mukundena śivena ca / sārdhaṃ śrīmandire tatra mantropetāṃ niveśya ca / ārādhya vaidikaiḥ stotraiḥ sāṣṭāṅgaṃ praṇanāma saḥ
पितामहः हृष्टात्मा मुकुन्देन शिवेन च सह। तत्र श्रीमन्दिरे मन्त्रोपेतां प्रतिष्ठाप्य, वैदिकैः स्तोत्रैः आराध्य साष्टाङ्गं प्रणनाम॥