दिक्पालादि-शिवलोकान्तर-कथनम्
Account of the Dikpālas and Intervening Realms toward Śiva’s Worlds
तत्राधारे स्थितो देवः पात्ररूपं समाश्रितः / सूर्यस्त्रिलोकीतिमिरप्रध्वंसप्रथितोदयः
tatrādhāre sthito devaḥ pātrarūpaṃ samāśritaḥ / sūryastrilokītimirapradhvaṃsaprathitodayaḥ
तस्मिन् आधारे देवः स्थितः, पात्ररूपं समाश्रितः; स एव सूर्यः त्रिलोकी-तिमिर-प्रध्वंसन-प्रथितोदयः।