दिक्पालादि-शिवलोकान्तर-कथनम्
Account of the Dikpālas and Intervening Realms toward Śiva’s Worlds
दीप्ततारुण्यलक्ष्मीका नानालङ्कारभूषिताः / आधाररूपं श्रीमन्तं भगवन्तं हविर्भुजम् / परिष्वज्यैव परितो वर्तन्ते मन्मथालसाः
dīptatāruṇyalakṣmīkā nānālaṅkārabhūṣitāḥ / ādhārarūpaṃ śrīmantaṃ bhagavantaṃ havirbhujam / pariṣvajyaiva parito vartante manmathālasāḥ
दीप्ततारुण्यलक्ष्म्यः नानालङ्कारभूषिताः स्त्रियः श्रीमन्तं भगवन्तं हविर्भुजम् आधाररूपं परिष्वज्य परितो वर्तन्ते, मन्मथेनालसाः।