दिक्पालादि-शिवलोकान्तर-कथनम्
Account of the Dikpālas and Intervening Realms toward Śiva’s Worlds
अत्यन्तकोमलान्यत्र सदा विकसितानि च / नवसौरभहृद्यानि विशङ्कटदलानि च / बहुशः संति पद्मानि कोडीनामपि कोडिशः
atyantakomalānyatra sadā vikasitāni ca / navasaurabhahṛdyāni viśaṅkaṭadalāni ca / bahuśaḥ saṃti padmāni koḍīnāmapi koḍiśaḥ
अत्र पद्मानि अत्यन्तकोमलानि, सदा विकसितानि च; नवसौरभहृद्यानि, विशालदलानि च; कोटीनामपि कोटिशः बहुशः सन्ति।