Viśukra–Viṣaṅga-vadha (The Slaying of Viśukra and Viṣaṅga) — Lalitopākhyāna
ललितां तां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः / प्रतिकल्पं धर्मरक्षां कर्तुं मत्स्या दिजन्मभिः / ललितांबानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे
lalitāṃ tāṃ namaskṛtya baddhāñjalipuṭāḥ sthitāḥ / pratikalpaṃ dharmarakṣāṃ kartuṃ matsyā dijanmabhiḥ / lalitāṃbāniyuktāste vaikuṇṭhāya pratasthire
तां ललितां नमस्कृत्य बद्धाञ्जलयः स्थिताः। प्रतिकल्पं मत्स्यादिदिजन्मभिः धर्मरक्षां कर्तुं ललिताम्बानियुक्ताः ते वैकुण्ठाय प्रतस्थिरे।