Gaṇanātha-Parākrama (Episode of Gaṇeśa’s Martial Exploit) — Lalitopākhyāna Battle Continuation
शिथिलीकुरुते सैन्यमस्माकं हा विधेः क्रमः / विशुष्कतालुमूलानां विभ्रष्टायुधतेजसाम् / शक्तीनां मण्डलेनात्र समरे समुपेक्षितम्
śithilīkurute sainyamasmākaṃ hā vidheḥ kramaḥ / viśuṣkatālumūlānāṃ vibhraṣṭāyudhatejasām / śaktīnāṃ maṇḍalenātra samare samupekṣitam
हा विधेः क्रमः— तेन तर्षेणास्माकं सैन्यं शिथिलीकुरुते; विशुष्कतालुमूलानां विभ्रष्टायुधतेजसां शक्तीनां मण्डलेनात्र समरे समुपेक्षितम्।