Gaṇanātha-Parākrama (Episode of Gaṇeśa’s Martial Exploit) — Lalitopākhyāna Battle Continuation
कोलाटेन च दुष्टेन चण्डकाल्यकरोद्रणम् / अक्षौहिणीभिर्दैत्यानां शताक्षौहिणिकास्तथा / महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः
kolāṭena ca duṣṭena caṇḍakālyakarodraṇam / akṣauhiṇībhirdaityānāṃ śatākṣauhiṇikāstathā / mahāntaṃ samare cakruranyonyaṃ krodhamūrchitāḥ
दुष्टेन कोलाटेन सह चण्डकाली रणम् अकरोत्। दैत्यानां शताक्षौहिणीभिः अक्षौहिणीभिश्च समं, क्रोधमूर्छिताः परस्परं महान्तं समरं चक्रुः॥