Gaṇanātha-Parākrama (Episode of Gaṇeśa’s Martial Exploit) — Lalitopākhyāna Battle Continuation
अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ / महामुसलदण्डाग्रघट्टनक्षोभितांबरौ / अयुध्येतां दुराधर्षौं दण्डिनीदैत्यशेखरौ
anyonyaprahṛtau randhramīkṣamāṇau mahoddhatau / mahāmusaladaṇḍāgraghaṭṭanakṣobhitāṃbarau / ayudhyetāṃ durādharṣauṃ daṇḍinīdaityaśekharau
अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ । महामुसलदण्डाग्रघट्टनक्षोभिताम्बरौ । अयुध्येतां दुराधर्षौ दण्डिनीदैत्यशेखरौ ॥