दुर्मद-कुरण्ड-वधः (The Slaying of Durmada and Kuraṇḍa) — Lalitopākhyāna Battle Continuation
तदस्त्रतो विनिष्ठ्यूता नकुलाः कोटिसंख्याकाः / वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा
tadastrato viniṣṭhyūtā nakulāḥ koṭisaṃkhyākāḥ / vajrāṅgā vajralomāno vajradaṃṣṭrā mahājavā
तदस्त्रतः विनिष्ठ्यूता नकुलाः कोटिसंख्याकाः प्रादुरभवन्—वज्राङ्गाः वज्रलोमानः वज्रदंष्ट्राः महाजवाश्च।