दुर्मद-कुरण्ड-वधः (The Slaying of Durmada and Kuraṇḍa) — Lalitopākhyāna Battle Continuation
इतस्ततः खण्डयन्तः सर्पिणीसर्पमण्डलम् / निजदंष्ट्राविमर्देन नाशयन्तश्च तद्विषम् / व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः
itastataḥ khaṇḍayantaḥ sarpiṇīsarpamaṇḍalam / nijadaṃṣṭrāvimardena nāśayantaśca tadviṣam / vyabhramansamare ghore viṣaghnāḥ svarṇababhravaḥ
इतस्ततः सर्पिणीसर्पमण्डलं खण्डयन्तः, निजदंष्ट्राविमर्देन तद्विषं नाशयन्तः; घोरे समरे विषघ्नाः स्वर्णबभ्रवो व्यभ्रमन्।