Bhaṇḍāsurāhaṅkāra
The Mustering of the Daitya Forces and the Roar of War
तुरगारूढयोत्क्षिप्ताः समाक्रामन्दिगन्तरान् / दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः
turagārūḍhayotkṣiptāḥ samākrāmandigantarān / diśo daśa vyānaśire rukmapuṅkhāḥ śilīmukhāḥ
तुरगारूढया उत्क्षिप्ताः शिलीमुखाः रुक्मपुङ्खाः दिगन्तरान् समाक्रामन्; दश दिशो व्यानशिरे।