Bhaṇḍāsurāhaṅkāra
The Mustering of the Daitya Forces and the Roar of War
कुटिलाक्ष उवाच देव त्वदाज्ञया दत्तं सैन्यं नगररक्षणे / दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति
kuṭilākṣa uvāca deva tvadājñayā dattaṃ sainyaṃ nagararakṣaṇe / durmadaḥ preṣitaḥ pūrvaṃ duṣṭāṃ tāṃ lalitāṃ prati
कुटिलाक्ष उवाच—देव, त्वदाज्ञया नगररक्षणार्थं यत् सैन्यं दत्तं, तत् पूर्वमेव दुर्मदः प्रेषितोऽभूत्, तां दुष्टां ललितां प्रति।