Bhaṇḍāsuraprādurbhāva
Rise and Consecration of Bhaṇḍāsura
हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा / सजीवमविनाश्यं च दैत्येन्द्रैरपि भूषितम् / दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्
hiraṇyāya tu yaddattaṃ kirīṭaṃ brahmaṇā purā / sajīvamavināśyaṃ ca daityendrairapi bhūṣitam / dadhau bhṛgusutotsṛṣṭaṃ bhaṇḍo bālārkasannibham
ब्रह्मणा पुरा हिरण्याय दत्तं सजीवमविनाश्यं किरीटं दैत्येन्द्रैरपि भूषितम्। भृगुसुतोत्सृष्टं बालार्कसन्निभं भण्डो दधौ।