Bhaṇḍāsuraprādurbhāva
Rise and Consecration of Bhaṇḍāsura
यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः / तत्र सा मृगशावाक्षी मूले चंपकशाखिनः / निवासमकरोद्रम्यं गायन्ती मधुरस्वरम्
yatra krīḍati daityendro nijanārībhiranvitaḥ / tatra sā mṛgaśāvākṣī mūle caṃpakaśākhinaḥ / nivāsamakarodramyaṃ gāyantī madhurasvaram
यत्र दैत्येन्द्रो निजनारीभिरन्वितः क्रीडति, तत्र सा मृगशावाक्षी चंपकशाखिनो मूले रम्यं निवासमकरोत्, मधुरस्वरेण गायन्ती॥