Bhaṇḍāsuraprādurbhāva
Rise and Consecration of Bhaṇḍāsura
बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः / इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः / उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः
babhūvuratha daiteyāstayāṣṭau tu mahābalāḥ / indraśatruramitraghno vidyunmālī vibhīṣaṇaḥ / ugrakarmogradhanvā ca vijayaśruti pāragaḥ
अथ तस्याष्टौ महाबला दैतेयाः बभूवुः—इन्द्रशत्रुः, अमित्रघ्नः, विद्युन्माली, विभीषणः, उग्रकर्मा, उग्रधन्वा, विजयश्रुतिः, पारगश्च।