Deva–Asura Battle after the Nectar; Bali’s Illusions and Hari’s Intervention
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: । नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥ १९ ॥ द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वल: । शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचन: ॥ २० ॥ हयग्रीव: शङ्कुशिरा: कपिलो मेघदुन्दुभि: । तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कल: ॥ २१ ॥ अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिप: । अन्ये पौलोमकालेया निवातकवचादय: ॥ २२ ॥ अलब्धभागा: सोमस्य केवलं क्लेशभागिन: । सर्व एते रणमुखे बहुशो निर्जितामरा: ॥ २३ ॥ सिंहनादान्विमुञ्चन्त: शङ्खान्दध्मुर्महारवान् । दृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम् ॥ २४ ॥
tasyāsan sarvato yānair yūthānāṁ patayo ’surāḥ namuciḥ śambaro bāṇo vipracittir ayomukhaḥ
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: । नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥ १९ ॥