अभिजातोपरुद्धा भूमिः पशुव्रजोपरुद्धा वेति अभिजातोपरुद्धा भूमिः महाफलाप्यायुधीयोपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात्पशुव्रजोपरुद्धा तु कृषियोग्या क्षमा मोक्षयितुम् ॥ कZ_०८.४.३७ ॥
abhijātoparuddhā bhūmiḥ paśuvrajoparuddhā veti abhijātoparuddhā bhūmiḥ mahāphalāpyāyudhīyopakāriṇī na kṣamā mokṣayituṃ vyasanābādhabhayāt paśuvrajoparuddhā tu kṛṣiyogyā kṣamā mokṣayitum
भूमिरभिजातैः उपरुद्धा वा पशुव्रजेन उपरुद्धा वा भवति। अभिजातोपरुद्धा भूमिः महाफला अपि आयुधीयोपकारिणी च, व्यसनाबाधभयात् मोक्षयितुं न क्षमा; पशुव्रजोपरुद्धा तु कृषियोग्या, मोक्षयितुं क्षमा।
Because elites can retaliate politically or through harassment, creating governance instability; herds are administratively easier to relocate/convert.