पितृपैतामहं सम्बन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्माणं च जनमासन्नं कुर्वीत नान्यतोदेशीयमकृतार्थमानं स्वदेशीयं वाप्यपकृत्योपगृहीतम् ॥ कZ_०१.२१.०२ ॥
pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitamanuraktaṃ kṛtakarmāṇaṃ ca janamāsannaṃ kurvīta nānyatodeśīyamakṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam
पितृपैतामहसम्बन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्माणं च जनमासन्नं कुर्वीत; नान्यतोदेशीयमकृतार्थमानं, स्वदेशीयं वाप्यपकृत्योपगृहीतम्।
Proximity to the ruler should be limited to trained and proven loyalists; opportunistic outsiders and compromised insiders are treated as high risk.