यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद् यदासादयति तत्सर्वं प्रमृद्नाति एवमयमशास्त्रचक्षुरन्धो राजा पौरजानपदवधायाभ्युत्थितः शक्यमस्य प्रतिहस्तिप्रोत्साहनेनापकर्तुममर्षः क्रियतामिति क्रुद्धवर्गमुपजापयेत् ॥ कZ_०१.१४.०७ ॥
yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur-andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihasti-protsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet
यथा मदान्धो हस्ती मत्तेनाधिष्ठितः यद्यदासादयति तत्सर्वं प्रमृद्नाति, एवम् अयम् अशास्त्रचक्षुरन्धो राजा पौरजानपदवधाय अभ्युत्थितः। प्रतिहस्तिप्रोत्साहनेन अस्य अपकर्तुं शक्यम्; अमर्षः क्रियताम्—इति क्रुद्धवर्गम् उपजापयेत्।
A calibrated counterweight—another power center (leader, faction, militia, or coalition) mobilized to restrain a destructive ruler.
By presenting action as protection of the populace against a ruler portrayed as policy-blind and violently unrestrained.