परिगृहीतां दासीमाहितिकां वा संरुद्धिकामधिचरतः पूर्वः साहसदण्डः चोरडामरिकभार्यां मध्यमः संरुद्धिकामार्यामुत्तमः ॥ कZ_०४.९.२४ ॥
parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaḥ coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ
परिगृहीतां संरुद्धिकां दासीम् आहितिकां वा अधिचरतः (बलात्सङ्गच्छतः) पूर्वः साहसदण्डः। चोरडामरिकभार्यां मध्यमः। संरुद्धिकाम् आर्याम् उत्तमः।
The text uses social/legal status as a proxy for protected interest and public order impact, escalating punishment for violations against higher-status protected persons.