ये चास्य हतभूमावासन्नचरास्तानेकैकशः पृच्छेत्केनायमिहानीतो हतो वा कः सशस्त्रः संगूहमान उद्विग्नो वा युष्माभिर्दृष्टः इति ॥ कZ_०४.७.२१ ॥
ye cāsya hatabhūmāv āsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti
ये चास्य हतभूमौ आसन्नचराः, तान् एकैकशः पृच्छेत्— ‘केनायम् इह आनीतः? हतो वा केन? कः सशस्त्रः संगूहमानः उद्विग्नो वा युष्माभिः दृष्टः?’ इति।
To reduce contamination and collusion, elicit independent recollections, and detect inconsistencies across testimonies.