कर्माभिग्रहस्तु मुषितवेश्मनः प्रवेशनिष्कसनमद्वारेण द्वारस्य संधिना बीजेन वा वेधमुत्तमागारस्य जालवातायननीप्रवेधमारोहणावतरणे च कुड्यस्य वेधमुपखननं वा गूढद्रव्यनिक्षेपणग्रहणोपायमुपदेशोपलभ्यमभ्यन्तरच्छेदोत्करपरिमर्दोपकरणमभ्यन्तरकृतं विद्यात् ॥ कZ_०४.६.१६ ॥
karmābhigrahas tu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa, dvārasya saṃdhinā, bījena vā vedham; uttamāgārasya jālavātāyananīpravedham; ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā; gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam; abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt ।
कर्माभिग्रहस्तु—मुषितवेश्मनः प्रवेशनिष्कसनम् अद्वारेण, द्वारस्य संधिना बीजेन वा वेधः; उत्तमागारस्य जालवातायननीप्रवेधः; आरोहणावतरणे च कुड्यस्य वेधम् उपखननं वा; गूढद्रव्यनिक्षेपणग्रहणोपायः उपदेशोपलभ्यः—एतानि, अभ्यन्तरच्छेदोत्करपरिमर्दोपकरणैः सह, अभ्यन्तरकृतं विद्यात्।
A proto-forensic checklist: infer culpability from entry/exit methods, tool marks, and internal traces to distinguish insider vs outsider theft.
It flags organized/experienced thieves and insider collusion—knowledge of hiding places and retrieval techniques implies prior access or coaching.