यं वा नानालोहक्षाराणामङ्गारभस्मासंदंशमुष्टिकाधिकरणीबिम्बटङ्कमूषाणामभीक्ष्णक्रेतारं मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गं कर्मारोपकरणसंसर्गं कूटरूपकारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् ॥ कZ_०४.४.२० ॥
yaṃ vā nānālohakṣārāṇām aṅgārabhasmāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet
यम् वा नानालोहक्षाराणाम्, अङ्गारभस्म, संदंशमुष्टिकादीनाम्, अधिकरणीबिम्बटङ्कमूषाणाम् अभीक्ष्णक्रेतारम्, मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गम्, कर्मारोपकरणसंसर्गं, कूटरूपकारकं मन्येत—तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत्।
Behavioral and supply-chain profiling (frequent purchase of specific inputs/tools, soot-marked clothing, equipment associations) followed by deep infiltration as an apprentice to confirm and document the crime.