यं वा मन्त्रयोगमूलकर्मभिः श्माशानिकैर्वा संवदनकरकं मन्येत तं सत्त्री ब्रूयात् अमुष्य भार्यां स्नुषां दुहितरं वा कामये सा मां प्रतिकामयतामयं चार्थः प्रतिगृह्यतामिति ॥ कZ_०४.४.१४ ॥
yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakarakaṃ manyeta taṃ sattrī brūyāt: amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye; sā māṃ pratikāmayatām; ayaṃ cārthaḥ pratigṛhyatām iti
यं वा मन्त्रयोगमूलकर्मभिः श्मशानिकैर्वा संवदनकरकं मन्येत, तं सत्त्री ब्रूयात्— ‘अमुष्य भार्यां स्नुषां दुहितरं वा कामये; सा मां प्रतिकामयताम्; अयं चार्थः प्रतिगृह्यताम्’ इति।
It functions as a trap to expose a broker who facilitates illicit access or manipulation; acceptance of the proposal and payment supplies actionable proof of criminal service-provision.