सुवर्णकाराणामशुचिहस्ताद् रूप्यं सुवर्णमनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः विरूपं चतुर्विंशतिपणः चोरहस्तादष्टचत्वारिंशत्पणः ॥ कZ_०४.१.२६ ॥
suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ virūpaṃ caturviṃśatipaṇaḥ corahastād aṣṭacatvāriṃśatpaṇaḥ
सुवर्णकाराणाम्—अशुचिहस्ताद् रूप्यं सुवर्णं वा अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः; विरूपं क्रीणतां चतुर्विंशतिपणः; चोरहस्तात् क्रीणताम् अष्टचत्वारिंशत्पणः।
Source-verification and mandatory reporting: they must disclose suspicious provenance, and face escalating fines when the source or irregularity indicates higher criminal risk.