चतुर्दण्डापकृष्टं परिखायाः षड्दण्डोच्छ्रितमवरुद्धं तद्द्विगुणविष्कम्भं खाताद्वप्रं कारयेदूर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम् ॥ कZ_०२.३.०५ ॥
caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ tad dviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiś ca kṣuṇṇaṃ kaṇṭakigulma-viṣavallī-pratānavantam
परिखायाः चतुर्दण्डापकृष्टं षड्दण्डोच्छ्रितम् अवरुद्धं तद्द्विगुणविष्कम्भं खातमृदा-वप्रं कारयेत्—ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा; हस्तिभिर्गोभिश्च क्षुण्णं; कण्टकिगुल्म-विषवल्ली-प्रतानवन्तं च।
It is a practical engineering method to densify earthworks using available state assets, improving load-bearing capacity and erosion resistance.