परस्य भार्यां कन्यां वित्तं वापहरन्तं शवित्तं वापहरन्तं शङ्कितमाविग्नमुद्भाण्डीकृतं महाभाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्योगृहीतलिङ्गिनमलिङ्गिनं वा प्रव्रजितमलक्ष्यव्याधितं भयविकारिणं गूढसारभाण्डशासनशस्त्राग्नियोगं विषहस्तं दीर्घपथिकममुद्रं चोपग्राहयेत् ॥ कZ_०२.२८.२० ॥
parasya bhāryāṃ kanyāṃ vittaṃ vāpaharantaṃ śa-vittaṃ vāpaharantaṃ śaṅkitam āvignam udbhāṇḍīkṛtaṃ mahābhāṇḍena mūrdhni bhāreṇāvacchādayantaṃ sadyogṛhīta-liṅginam aliṅginaṃ vā pravrajitam alakṣya-vyādhitaṃ bhaya-vikāriṇaṃ gūḍha-sāra-bhāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgha-pathikam amudraṃ copagrāhayet
परस्य भार्यां कन्यां वित्तं वा अपहरन्तं, शवित्तं वा अपहरन्तं, शङ्कितम् आविग्नम् उद्भाण्डीकृतं, महाभाण्डेन मूर्ध्नि भारेण अवच्छादयन्तं, सद्यःगृहीतलिङ्गिनम् अलिङ्गिनं वा, प्रव्रजितम्, अलक्ष्यव्याधितं, भयविकारिणं, गूढसारभाण्ड-शासन-शस्त्र-अग्नियोगं, विषहस्तं, दीर्घपथिकम् अमुद्रं च उपग्राहयेत्।
Long-distance movement without an official seal-pass is treated as a high-risk indicator for crime, espionage, or contraband.
Abduction, theft, forged orders, concealed valuables, weapons, arson implements, and poison—i.e., both criminal and political-security threats.