स चेत्संधौ नावतिष्ठेत ब्रूयादेनं इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः तेषामनात्मवतां नार्हसि मार्गमनुगन्तुम् ॥ कZ_१२.२.०१ ॥
sa cet saṃdhau nāvatiṣṭheta brūyād enaṃ ime śatruṣaḍvargavaśagā rājāno vinaṣṭāḥ teṣām anātmavatāṃ nārhasi mārgam anugantum
स चेत् संधौ नावतिष्ठेत, ब्रूयाद् एनम्—इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः; तेषाम् अनात्मवतां मार्गम् अनुगन्तुं नार्हसि।
It frames treaty-breaking as a symptom of poor impulse control, not strategic brilliance—pushing leaders toward disciplined, reputation-preserving policy.