Vajrasuchika
तर्हि ज्ञानं ब्राह्मण इति चेत् तन्न। क्षत्रियादयोऽपि परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति। तस्मात् न ज्ञानं ब्राह्मण इति॥६॥
तर्हि । ज्ञानम् । ब्राह्मणः । इति । चेत् । तत् । न । क्षत्रिय-आदयः । अपि । परमार्थ-दर्शिनः । अभिज्ञाः । बहवः । सन्ति । तस्मात् । न । ज्ञानम् । ब्राह्मणः । इति ॥६॥
tarhi jñānaṃ brāhmaṇa iti cet tan na | kṣatriyādayo'pi paramārthadarśino'bhijñā bahavaḥ santi | tasmāt na jñānaṃ brāhmaṇa iti ||6||
Se se disser: “então o conhecimento é o Brāhmaṇa”, isso não é assim. Pois entre os Kṣatriyas e outros também há muitos conhecedores, videntes da Realidade suprema. Portanto, o conhecimento não é o Brāhmaṇa.
If it be said, “then knowledge is the Brāhmaṇa,”—that is not so. For Kṣatriyas and others also are many who are knowers, seers of the highest reality. Therefore, knowledge is not the Brāhmaṇa.