Sita
सा देवी त्रिविधा भवति शक्त्यासना—इच्छाशक्तिः क्रियाशक्तिः साक्षाच्छक्तिरिति। इच्छाशक्तिस्त्रिविधा भवति—श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी सोमसूर्याग्निरूपा भवति। सोमात्मिका ओषधीनां प्रभवति कल्पवृक्षपुष्पफललतागुल्मात्मिका औषधभेषजात्मिका अमृतरूपा देवानां महस्तोमफलप्रदा अमृतेन तृप्तिं जनयन्ती देवानामन्नेन पशूनां तृणेन तत्तज्जीवानाम्॥११–१३॥
सा । देवी । त्रि-विधा । भवति । शक्ति-आसना । इच्छा-शक्तिः । क्रिया-शक्तिः । साक्षात्-शक्तिः । इति । इच्छा-शक्तिः । त्रि-विधा । भवति । श्री-भूमि-नील-आत्मिका । भद्र-रूपिणी । प्रभाव-रूपिणी । सोम-सूर्य-अग्नि-रूपा । भवति । सोम-आत्मिका । ओषधी-नाम् । प्रभवति । कल्प-वृक्ष-पुष्प-फल-लता-गुल्म-आत्मिका । औषध-भेषज-आत्मिका । अमृत-रूपा । देवानाम् । महा-स्तोम-फल-प्रदा । अमृतेन । तृप्तिम् । जनयन्ती । देवानाम् । अन्नेन । पशूनाम् । तृणेन । तत्-तत्-जीवानाम् ॥११–१३॥
sā devī trividhā bhavati śaktyāsanā—icchāśaktiḥ kriyāśaktiḥ sākṣācchaktir iti | icchāśaktis trividhā bhavati—śrībhūminīlātmikā bhadrarūpiṇī prabhāvarūpiṇī somasūryāgnirūpā bhavati | somātmikā oṣadhīnāṃ prabhavati kalpavṛkṣapuṣpaphalalatāgulmātmikā auṣadhabheṣajātmikā amṛtarūpā devānāṃ mahāstomaphalapradā amṛtena tṛptiṃ janayantī devānām annena paśūnāṃ tṛṇena tattajjīvānām ||11–13||
A mesma passagem: a Deusa é tríplice como poder de vontade, poder de ação e poder direto. O poder de vontade é tríplice como Śrī–Bhūmi–Nīlā e como Soma–Sol–Fogo; e, como Soma, ela faz surgir plantas e remédios, tornando-se néctar e sustento para os deuses, para o gado e para todos os seres.
Same passage as the preceding: the Goddess is threefold as will-power, action-power, and direct power; will-power is threefold as Śrī–Bhūmi–Nīlā and as Soma–Sun–Fire, and as Soma she generates plants and medicines, becoming nectar and nourishment for gods, cattle, and all beings.