Paramahansaparivrajaka
भगवन् ब्रह्मप्रणवः कीदृश इति ब्रह्मा पृच्छति । स होवाच नारायणः । ब्रह्मप्रणवः षोडशमात्रात्मकः सोऽवस्थाचतुष्टयचतुष्टयगोचरः । जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्था तुरीये तुरीयादिचतस्रोऽवस्था भवन्तीति ।
जाग्रदवस्थायां विश्वस्य चातुर्विध्यं—विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति । स्वप्नावस्थायां तैजसस्य चातुर्विध्यं—तैजसविश्वस्तैजसतैजसस्तैजसप्राज्ञस्तैजसतुरीय इति । सुषुप्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं—प्राज्ञविश्वः प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय इति । तुरीयावस्थायां तुरीयस्य चातुर्विध्यं—तुरीयविश्वस्तुरीयतैजसस्तुरीयप्राज्ञस्तुरीयतुरीय इति ।
ते क्रमेण षोडशमात्रा रूढाः—अकारे जाग्रद्विश्वः, उकारे जाग्रत्तैजसः, मकारे जाग्रत्प्राज्ञः, अर्धमात्रायां जाग्रत्तुरीयः; बिन्दौ स्वप्नविश्वः, नादे स्वप्नतैजसः, कलायां स्वप्नप्राज्ञः, कलातीते स्वप्नतुरीयः; शान्तौ सुषुप्तविश्वः, शान्त्यतीते सुषुप्ततैजसः, उन्मन्यां सुषुप्तप्राज्ञः, मनोन्मन्यां सुषुप्ततुरीयः; पुर्यां तुरीयविश्वः, मध्यमायां तुरीयतैजसः, पश्यन्त्यां तुरीयप्राज्ञः, परायां तुरीयतुरीयः ।
जाग्रन्मात्राचतुष्टयमकारांशं, स्वप्नमात्राचतुष्टयमुकारांशं, सुषुप्तिमात्राचतुष्टयं मकारांशं, तुरीयमात्राचतुष्टयमर्धमात्रांशम् । अयमेव ब्रह्मप्रणवः । स परमहंसतुरीयातीतावधूतैरुपास्यः । तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः ॥४॥
भगवन् । ब्रह्म-प्रणवः । की-दृशः । इति । ब्रह्मा । पृच्छति । सः । ह । उवाच । नारायणः । ब्रह्म-प्रणवः । षोडश-मात्रा-आत्मकः । सः । अवस्था-चतुष्टय-चतुष्टय-गोचरः । जाग्रत्-अवस्थायाम् । जाग्रत्-आदि । चतस्रः । अवस्थाः । स्वप्ने । स्वप्न-आदि । चतस्रः । अवस्थाः । सुषुप्तौ । सुषुप्ति-आदि । चतस्रः । अवस्थाः । तुरीये । तुरीय-आदि । चतस्रः । अवस्थाः । भवन्ति । इति ।
जाग्रत्-अवस्थायाम् । विश्वस्य । चातुर्विध्यम् । विश्व-विश्वः । विश्व-तैजसः । विश्व-प्राज्ञः । विश्व-तुरीयः । इति । स्वप्न-अवस्थायाम् । तैजसस्य । चातुर्विध्यम् । तैजस-विश्वः । तैजस-तैजसः । तैजस-प्राज्ञः । तैजस-तुरीयः । इति । सुषुप्ति-अवस्थायाम् । प्राज्ञस्य । चातुर्विध्यम् । प्राज्ञ-विश्वः । प्राज्ञ-तैजसः । प्राज्ञ-प्राज्ञः । प्राज्ञ-तुरीयः । इति । तुरीय-अवस्थायाम् । तुरीयस्य । चातुर्विध्यम् । तुरीय-विश्वः । तुरीय-तैजसः । तुरीय-प्राज्ञः । तुरीय-तुरीयः । इति ।
ते । क्रमेण । षोडश-मात्राः । रूढाः । अकारे । जाग्रत्-विश्वः । उकारे । जाग्रत्-तैजसः । मकारे । जाग्रत्-प्राज्ञः । अर्ध-मात्रायाम् । जाग्रत्-तुरीयः । बिन्दौ । स्वप्न-विश्वः । नादे । स्वप्न-तैजसः । कलायाम् । स्वप्न-प्राज्ञः । कला-अतीते । स्वप्न-तुरीयः । शान्तौ । सुषुप्त-विश्वः । शान्ति-अतीते । सुषुप्त-तैजसः । उन्मन्यां । सुषुप्त-प्राज्ञः । मनः-उन्मन्यां । सुषुप्त-तुरीयः । पुर्यां । तुरीय-विश्वः । मध्यमायाम् । तुरीय-तैजसः । पश्यन्त्यां । तुरीय-प्राज्ञः । परायाम् । तुरीय-तुरीयः ।
जाग्रत्-मात्रा-चतुष्टयम् । अकार-अंशम् । स्वप्न-मात्रा-चतुष्टयम् । उकार-अंशम् । सुषुप्ति-मात्रा-चतुष्टयम् । मकार-अंशम् । तुरीय-मात्रा-चतुष्टयम् । अर्ध-मात्रा-अंशम् । अयम् । एव । ब्रह्म-प्रणवः । सः । परमहंस-तुरीयातीत-अवधूतैः । उपास्यः । तेन । एव । ब्रह्म । प्रकाशते । तेन । विदेह-मुक्तिः ।
bhagavan brahmapraṇavaḥ kīdṛśa iti brahmā pṛcchati | sa hovāca nārāyaṇaḥ | brahmapraṇavaḥ ṣoḍaśamātrātmakaḥ so'vasthācatuṣṭayacatuṣṭayagocaraḥ | jāgradavasthāyāṃ jāgradādicatasro'vasthāḥ svapne svapnādicatasro'vasthāḥ suṣuptau suṣuptyādicatasro'vasthā turīye turīyādicatasro'vasthā bhavantīti |
jāgradavasthāyāṃ viśvasya cāturvidhyaṃ—viśvaviśvo viśvataijaso viśvaprājño viśvaturīya iti | svapnāvasthāyāṃ taijasasya cāturvidhyaṃ—taijasaviśvas taijasataijasas taijasaprājñas taijasaturīya iti | suṣuptyavasthāyāṃ prājñasya cāturvidhyaṃ—prājñaviśvaḥ prājñataijasaḥ prājñaprājñaḥ prājñaturīya iti | turīyāvasthāyāṃ turīyasya cāturvidhyaṃ—turīyaviśvas turīyataijasas turīyaprājñas turīyaturīya iti |
te krameṇa ṣoḍaśamātrā rūḍhāḥ—akāre jāgradviśvaḥ, ukāre jāgrattaijasaḥ, makāre jāgratprājñaḥ, ardhamātrāyāṃ jāgratturīyaḥ; bindau svapnaviśvaḥ, nāde svapnataijasaḥ, kalāyāṃ svapnaprājñaḥ, kalātīte svapnaturīyaḥ; śāntau suṣuptaviśvaḥ, śāntyatīte suṣuptataijasaḥ, unmanyāṃ suṣuptaprājñaḥ, manonmanyāṃ suṣuptaturīyaḥ; puryāṃ turīyaviśvaḥ, madhyamāyāṃ turīyataijasaḥ, paśyantyāṃ turīyaprājñaḥ, parāyāṃ turīyaturīyaḥ |
jāgran-mātrācatuṣṭayam akāra-aṃśaṃ, svapna-mātrācatuṣṭayam ukāra-aṃśaṃ, suṣupti-mātrācatuṣṭayaṃ makāra-aṃśaṃ, turīya-mātrācatuṣṭayam ardhamātrā-aṃśam | ayameva brahmapraṇavaḥ | sa paramahaṃsa-turīyātīta-avadhūtair upāsyaḥ | tenaiva brahma prakāśate tena videhamuktiḥ ||4||
Brahmā pergunta: “Venerável, como é o Brahman-Praṇava?” Nārāyaṇa respondeu: “O Brahman-Praṇava é da natureza de dezesseis mātrās; seu domínio é o conjunto quádruplo dos quatro estados. No estado de vigília há quatro estados começando pela vigília; no sonho, quatro começando pelo sonho; no sono profundo, quatro começando pelo sono profundo; no quarto (turīya), quatro começando por turīya. Na vigília, o quádruplo de Viśva é: viśva-viśva, viśva-taijasa, viśva-prājña, viśva-turīya. No sonho, o quádruplo de Taijasa é: taijasa-viśva, taijasa-taijasa, taijasa-prājña, taijasa-turīya. No sono profundo, o quádruplo de Prājña é: prājña-viśva, prājña-taijasa, prājña-prājña, prājña-turīya. Em turīya, o quádruplo de Turīya é: turīya-viśva, turīya-taijasa, turīya-prājña, turīya-turīya. Estes se estabelecem sucessivamente nas dezesseis mātrās: no A—vigília-viśva; no U—vigília-taijasa; no M—vigília-prājña; na meia-mātrā—vigília-turīya; no bindu—sonho-viśva; no nāda—sonho-taijasa; na kalā—sonho-prājña; além da kalā—sonho-turīya; na śānti—sono profundo-viśva; além da śānti—sono profundo-taijasa; na unmanī—sono profundo-prājña; na manonmanī—sono profundo-turīya; na purī—turīya-viśva; na madhyamā—turīya-taijasa; na paśyantī—turīya-prājña; na parā—turīya-turīya. As quatro mātrās da vigília são a porção de A; as quatro do sonho, a porção de U; as quatro do sono profundo, a porção de M; as quatro de turīya, a porção da meia-mātrā. Este é, de fato, o Brahman-Praṇava. Ele deve ser contemplado pelo paramahaṃsa, pelo turīyātīta e pelo avadhūta. Por ele somente Brahman resplandece; por ele há libertação sem corpo (videha-mukti).
Brahmā asks: “Venerable one, what is the Brahman-Praṇava like?” Nārāyaṇa replied: “The Brahman-Praṇava is of the nature of sixteen mātrās; it has as its domain the fourfold set of the four states. In the waking state there are four states beginning with waking; in dream four beginning with dream; in deep sleep four beginning with deep sleep; in the fourth (turīya) four beginning with turīya. In waking, the fourfold of Viśva is: viśva-viśva, viśva-taijasa, viśva-prājña, viśva-turīya. In dream, the fourfold of Taijasa is: taijasa-viśva, taijasa-taijasa, taijasa-prājña, taijasa-turīya. In deep sleep, the fourfold of Prājña is: prājña-viśva, prājña-taijasa, prājña-prājña, prājña-turīya. In turīya, the fourfold of Turīya is: turīya-viśva, turīya-taijasa, turīya-prājña, turīya-turīya. These are successively established in the sixteen mātrās: in A—waking-viśva; in U—waking-taijasa; in M—waking-prājña; in the half-mātrā—waking-turīya; in bindu—dream-viśva; in nāda—dream-taijasa; in kalā—dream-prājña; beyond kalā—dream-turīya; in śānti—deep-sleep-viśva; beyond śānti—deep-sleep-taijasa; in unmanī—deep-sleep-prājña; in manonmanī—deep-sleep-turīya; in purī—turīya-viśva; in madhyamā—turīya-taijasa; in paśyantī—turīya-prājña; in parā—turīya-turīya. The four mātrās of waking are the portion of A; the four of dream the portion of U; the four of deep sleep the portion of M; the four of turīya the portion of the half-mātrā. This indeed is the Brahman-Praṇava. It is to be contemplated by the paramahaṃsa, the turīyātīta, the avadhūta. By that alone Brahman shines forth; by that is disembodied liberation.