Atharvashiras
भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्तं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् ।
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य ।
सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेन तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः ।
तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः । य ओङ्कारः स प्रणवः । यः प्रणवः स सर्वव्यापी । यः सर्वव्यापी सोऽनन्तः । योऽनन्तस्तत्तारं । यत्तारं तत्सूक्ष्मं । तच्छुक्लं । यच्छुक्लं तद्वैद्युतं । यद्वैद्युतं तत्परं ब्रह्म । यत्परं ब्रह्म स एकः । य एकः स रुद्रः । य रुद्रः स ईशानः । य ईशानः स भगवान् महेश्वरः ॥३॥
भूः ते । आदिः-मध्यम् । भुवः-स्वः ते । शीर्षम् । विश्व-रूपः असि । ब्रह्म । एकः त्वम् । द्विधा त्रिधा । वृद्धिः । तम् । शान्तिः त्वम् । पुष्टिः त्वम् । हुतम्-अहुतम् । दत्तम्-अदत्तम् । सर्वम्-असर्वम् । विश्वम्-अविश्वम् । कृतम्-अकृतम् । परम्-अपरम् । परायणम् च । त्वम् ।
अपाम सोमम् । अमृताः अभूम । अगन्म । ज्योतिः अविदाम । देवान् । किम् नूनम् अस्मान् कृणवत् अरातिः । किम् उ धूर्तिः । अमृतम् मार्त्यस्य ।
सोम-सूर्य-पुरस्तात् । सूक्ष्मः पुरुषः । सर्वम् जगत्-हितम् वा । एतत् अक्षरम् । प्राजापत्यम् । सूक्ष्मम् । सौम्यम् । पुरुषम् । ग्राह्यम् अग्राह्येण । भावम् भावेन । सौम्यम् सौम्येन । सूक्ष्मम् सूक्ष्मेण । वायव्यम् वायव्येन । ग्रसति । स्वेन तेजसा । तस्मात् उपसंहर्त्रे । महा-ग्रासाय । वै नमः नमः ।
हृदि-स्थाः देवताः सर्वाः । हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वम् असि । यः नित्यम् । तिस्रः मात्राः । परः तु सः ।
तस्य उत्तरतः शिरः । दक्षिणतः पादौ । यः उत्तरतः सः ओङ्कारः । यः ओङ्कारः सः प्रणवः । यः प्रणवः सः सर्व-व्यापी । यः सर्व-व्यापी सः अनन्तः । यः अनन्तः तत् तारम् । यत् तारम् तत् सूक्ष्मम् । तत् शुक्लम् । यत् शुक्लम् तत् वैद्युतम् । यत् वैद्युतम् तत् परम् ब्रह्म । यत् परम् ब्रह्म सः एकः । यः एकः सः रुद्रः । यः रुद्रः सः ईशानः । यः ईशानः सः भगवान् महेश्वरः ॥३॥
bhūs te ādir madhyaṃ bhuvaḥ svas te śīrṣaṃ viśvarūpo ’si brahmaikaḥ tvaṃ dvidhā tridhā vṛddhis taṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam |
apām somam amṛtā abhūmāganma jyotir avidāma devān | kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiḥ amṛtaṃ mārtyasya |
somasūryapurastāt sūkṣmaḥ puruṣaḥ | sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ sūkṣmaṃ saumyaṃ puruṣaṃ grāhyam agrāhyeṇa bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmeṇa vāyavyaṃ vāyavyena grasati svena tejasā tasmād upasaṃhartre mahāgrāsāya vai namo namaḥ |
hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ | hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ |
tasyottarataḥ śiro dakṣiṇataḥ pādau ya uttarataḥ sa oṅkāraḥ | ya oṅkāraḥ sa praṇavaḥ | yaḥ praṇavaḥ sa sarvavyāpī | yaḥ sarvavyāpī so ’nantaḥ | yo ’nantas tat tāraṃ | yat tāraṃ tat sūkṣmaṃ | tac chuklaṃ | yac chuklaṃ tad vaidyutaṃ | yad vaidyutaṃ tat paraṃ brahma | yat paraṃ brahma sa ekaḥ | ya ekaḥ sa rudraḥ | ya rudraḥ sa īśānaḥ | ya īśānaḥ sa bhagavān maheśvaraḥ ||3||
Bhūḥ é o teu começo e o teu meio; Bhuvaḥ e Svaḥ são a tua cabeça. És de forma universal; tu, só, és Brahman—aparecendo em dois e em três. És crescimento; és paz; és nutrição. És o oferecido e o não-oferecido, o dado e o não-dado, o todo e o não-todo, o universo e o não-universo, o feito e o não-feito, o superior e o inferior, e também o refúgio supremo. “Bebemos o Soma nas águas; tornamo-nos imortais; alcançamos a luz; conhecemos os deuses. Que pode a hostilidade fazer-nos agora? Que pode o enganador ao mortal que encontrou a imortalidade?” À frente de Soma e Sūrya está o Puruṣa sutil. Este imperecível, semelhante a Prajāpati, sutil e benigno—é apreendido pelo inapreensível; estado por estado; o benigno pelo benigno; o sutil pelo sutil; o aéreo pelo aéreo—ele devora tudo pelo seu próprio fulgor. Portanto, ao recolhedor, ao grande devorador: saudação, saudação. Todas as divindades habitam no coração; no coração os sopros vitais estão firmados. Tu estás no coração; aquele que é sempre além das três medidas—esse é o Supremo. Acima está a cabeça; à direita estão os pés; o que está ao norte é o Oṅkāra. O Oṅkāra é o Praṇava; o Praṇava é onipenetrante; o onipenetrante é infinito; o infinito é o Tār(a); o Tār(a) é sutil; isso é branco; o branco é como relâmpago; o relampejante é o supremo Brahman; o supremo Brahman é Um; o Um é Rudra; Rudra é Īśāna; Īśāna é o Senhor Bem-aventurado Maheśvara.
Bhūḥ is your beginning and middle; Bhuvaḥ and Svaḥ are your head. You are of universal form; you alone are Brahman—(appearing) twofold, threefold. You are increase; you are peace; you are nourishment. You are what is offered and not offered, what is given and not given, all and not-all, the universe and not-universe, what is done and not done, the higher and the lower, and the supreme refuge as well. “We have drunk the Soma in the waters; we have become immortal; we have reached the light; we have known the gods. What can hostility do to us now? What can the deceiver do to the mortal (who has found) immortality?” In front of Soma and Sūrya is the subtle Person. This imperishable, Prajāpati-like, subtle, gentle Person—(he is) to be grasped by the ungraspable; state by state; the gentle by the gentle; the subtle by the subtle; the airy by the airy—he devours (all) by his own splendor. Therefore, to the withdrawer, to the great devourer—salutation, salutation. All deities abide in the heart; in the heart the vital breaths are established. You are in the heart; he who is ever beyond the three measures—he is the Supreme. Above it is the head; on the right are the feet; that which is to the north is the Oṅkāra. That Oṅkāra is the Praṇava; that Praṇava is all-pervading; the all-pervading is infinite; the infinite is the Tār(a); the Tār(a) is subtle; that is white; the white is lightning-like; the lightning-like is the supreme Brahman; the supreme Brahman is One; the One is Rudra; Rudra is Īśāna; Īśāna is the Blessed Lord Maheśvara.