पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ उद॑जय॒त्ता उज्जे॑षंᳪ सवि॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जय॒त्तानुज्जे॑षं म॒रुत॑: स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम्
pūṣā páñcākṣareṇa páñca díśa úd ajayat tā́ ujjéṣaṃ savitā ṣáḍ-akṣareṇa ṣáḍ-ṛtū́n úd ajayat tā́n ujjéṣaṃ marútaḥ saptākṣareṇa saptá grāmyā́n paśū́n úd ajayan tā́n ujjéṣaṃ bṛ́haspátir aṣṭākṣareṇa gāyatrī́m úd ajayat tā́m ujjéṣam
Pūṣan, com uma (fórmula) de cinco sílabas, venceu as cinco direções; que eu as vença. Savitṛ, com uma (fórmula) de seis sílabas, venceu as seis estações; que eu as vença. Os Maruts, com uma (fórmula) de sete sílabas, venceram os sete animais domésticos; que eu os vença. Bṛhaspati, com uma (fórmula) de oito sílabas, venceu a Gāyatrī; que eu a vença.
पू॒षा । पञ्च-अ॑क्षरेण । पञ्च । दिशः॑ । उद॑जयत् । ताः । उ॒ज्जे॑षम् । सवि॒ता । षट्-अ॑क्षरेण । षट् । ऋ॒तून् । उद॑जयत् । तान् । उ॒ज्जे॑षम् । म॒रुतः॑ । स॒प्त-अ॑क्षरेण । स॒प्त । ग्रा॒म्यान् । प॒शून् । उद॑जयन् । तान् । उ॒ज्जे॑षम् । बृह॒स्पतिः॑ । अ॒ष्ट-अ॑क्षरेण । गाय॒त्रीम् । उद॑जयत् । ताम् । उ॒ज्जे॑षम् ।