ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धन॑ᳪ समि॒थेषु॑ जभ्रि॒रे
té no árvanto havanaśrúto hávaṃ víśve śṛṇvantu vājíno mitádravaḥ | sahasrasā́ medhásātā saniṣyávo mahó yé dhánaṃ samithéṣu jabhriré
Que nossos corcéis, ouvintes da invocação, ouçam o nosso chamado; que o ouçam todos os vencedores do vāja, de curso medido. Ganhadores de mil, ganhadores de perícia, ávidos de vitória — os que, em grandes combates, levaram o prêmio.
ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒श्रुतः॑ । हवम् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒त-द्र॑वः । स॒ह॒स्र॒साः । मे॒धसा॑ताः । स॒नि॒ष्यवः॑ । म॒हः । ये । धनम् । स॒मि॒थेषु॑ । ज॒भ्रि॒रे