वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मणे ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे
vācáspatiṃ viśvákarmāṇam ūtáye manojúvaṃ vā́je adyá huvema | sá no víśvāni hávanāni joṣad viśváśambhū́r ávase sā́dhukarmā | upayā́magṛhīto ’sī́ndrāya tvā viśvákarmāṇe eṣá te yóniḥ índrāya tvā viśvákarmāṇe
Para nosso auxílio, hoje, na conquista da força, invocamos o Senhor da Palavra, Viśvakarman, veloz como o pensamento. Que ele aceite todas as nossas invocações—o que tudo abençoa, para nosso socorro, o bom artífice. Tomado com o Upayāma és—para Indra, com Viśvakarman; este é o teu seio—para Indra, com Viśvakarman.
वाचः-पतिम् । विश्व-कर्माणम् । ऊतये । मनः-जुवम् । वाजे । अद्य । हुवेम । सः । नः । विश्वानि । हवनानि । जोषत् । विश्व-शम्भूः । अवसे । साधु-कर्मा । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । विश्व-कर्मणे । एषः । ते । योनिः । इन्द्राय । त्वा । विश्व-कर्मणे ।