इडे॒ रन्ते॒ हव्ये॒ काम्ये॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति । ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतं॑ ब्रूतात्
iḍe rante havye kāmye candre jyóte ’dite sárasvati máhi víśruti | etā́ te aghnye nā́māni devébhyo mā sukṛ́taṃ brūtāt
Ó Iḍā, eles se alegram na oblação, no dom desejado, na luz resplandecente; ó Aditi, ó Sarasvatī, grande em renome. Estes são os teus nomes, ó Aghnyā: que o meu serviço bem realizado seja proclamado aos deuses.
इडे । रन्ते । हव्ये । काम्ये । चन्द्रे । ज्योतिः । अदिते । सरस्वति । महि । विश्रुति । एता । ते । अघ्न्ये । नामानि । देवेभ्यः । मा । सुकृतम् । ब्रूतात् ।