यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञपतिं॑ गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ । ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाक॒: सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑
yajñá yajñáᳪ gaccha yajñápatim gaccha svā́ᳪ yóniᳪ gaccha svā́hā | eṣá te yajñó yajñapate sahá-sūkta-vā́kaḥ sárva-vīras táᳪ juṣasva svā́hā
Ó Sacrifício, vai ao sacrifício; vai ao senhor do sacrifício; vai ao teu próprio seio: Svāhā! Este é o teu sacrifício, ó senhor do sacrifício, acompanhado da palavra hínica, rico em toda descendência heroica — aceita-o com benevolência: Svāhā!
यज्ञ॑ । य॒ज्ञम् । ग॒च्छ॒ । य॒ज्ञप॑तिम् । ग॒च्छ॒ । स्वाम् । योनि॑म् । ग॒च्छ॒ । स्वाहा॑ । ए॒षः । ते॒ । य॒ज्ञः । य॒ज्ञप॑ते । स॒ह॒सू॑क्त॒-वा॒कः । सर्व॑-वीरः । तम् । जु॒ष॒स्व॒ । स्वाहा॑